पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६९
शततमः सर्गः


वानरांश्च रणे मग्नानापतन्तं च रावणम् । समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥१४
विस्फारयितुमारेभे ततः स धनुरुत्तमम् । महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १५
रावणस्य च बाणौघै रामविस्फारतेन च । शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ १६
तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः । स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ १७
तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः । मुमोच धनुरायम्य शरानग्निशिखोपमान् ।।१८
तान् मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता । बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ।।१९
एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश । लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ।। २०
अभ्यतिक्रम्य सौमित्रिं रावणः समिनिंजयः । आससाद ततो गमं स्थितं शैलमिवाचलम् ।।२१
स संख्ये राममासाद्य क्रोधसंरक्तलोचनः । व्यसृजच्छरवर्षाणि रावणो राघवोपरि ।। २२
शरधारास्ततो रामो रावणस्य धनुश्च्युताः । दृष्ट्वैवापततः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥ २३
ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः । दीप्यमानान् महाघोरान् क्रुद्धानाशीविषानिव ।।२४
राघवो रावणं तृणं रावणो राघवं तदा । अन्योन्यं विविधैरस्तीक्ष्णैः शरैरभिववर्षतुः ।। २५
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् । बाणवेगात् समुत्क्षिप्तावन्योन्यमपराजितौ ॥ २६
नयोर्भूतानि वित्रेसुर्युगपत् संप्रयुध्यतोः । रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ २७
संततं विविधैर्बाणैर्बभूव गगनं तदा । घनैरिवातपापाये विद्युन्मालासमाकुलैः ।। २८
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः । महावेगैः सुतीक्ष्णाग्रैगृधपत्रैः सुवाजितैः ॥ २९
शरान्धकारमाकाशं चक्रतुः परमं तदा । गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ।।३०
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः । अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ।।३१
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ । उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥३२
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः । ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ३३
ततः संसक्तहस्तस्तु रावणो लोकरावणः । नागचमालां रामस्य ललाटे प्रत्यमुञ्चत ।।३४
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् । शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत ।। ३५
अथ मन्त्रानभिजपन् रौद्रमस्त्रमुदीरयन् । शरान भूयः समादाय रामः क्रोधसमन्वितः ॥ ३६
मुमोच च महातेजाश्चापमायम्य वीर्यवान् । ते महामेघसंकाशे कवचे पतिताः शराः ॥ ३७
अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा । पुनरेवाथ तं रामो रथस्तं राक्षसाधिपम् ॥ ३८
ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् । ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ॥३९