पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


अङ्गदो मोक्षयामास सरोषः स परश्वधम् । स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः ॥ २०
संवर्तयत् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः । राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति ॥ २१
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् । तेन तस्य निपातेन राक्षसस्य महामृधे ।। २२
पफाल हृदयं चाशु स पपात हतो भुवि । तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे ।। २३
अभवच्च महान् क्रोधः समरे रावणस्य तु । वानराणां च हृष्टानां सिंहनादश्च पुष्कलः ॥ २४
स्फोटयन्निव शब्देन लकां साट्टालगोपुराम् । महेन्द्रेणेव देवानां नादः समभवन्महान् ॥ २५

अथेन्द्रशत्रुस्त्रिदिवालायानां वनौकसां चैव महाप्रणादम् ।
श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखोऽवनस्थे । २६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्निकायां संहितायाम्

युद्धकाण्डे महापार्श्ववधो नाम एकोनशततमः सर्ग:

शततमः सर्गः

रामरावणास्त्रपरम्परा

महोदरमहापार्श्वै हतौ दृष्ट्वा तु राक्षसौ । तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥ १
आविवेश महान् क्रोधो रावणं तं महामृधे। सूतं संचोदयामास वाक्यं चेदमुवाच ह ।।२
निहतानाममात्यानां रुद्धस्य नगरस्य च । दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ।।३
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् । प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः || ४
मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः । हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ।।५
स दिशो दश घोषेण रथस्यातिरथो महान् । नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तंत ।।६
पूरिता तेन शब्देन सनदीगिरिकानना । संचचाल मही सर्वा सवराहमृगद्विपा ।।७
तामसं स महाघोरं चकारास्त्रं मुदारुणम् । निर्वदाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ।।८
उत्पपात रजो घोरं तैर्भग्नैः संप्रधावितैः । न हि तत् सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥९
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः । दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थिनः ॥ १०
ततो राक्षसशार्दुलो विद्राव्य हरिवाहिनीम् । स ददर्श ततो रामं तिष्ठन्तमपराजितम् ॥ ११
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा । आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ॥१२
पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् । ततो रामो महातेजाः सौमित्रिसहितो बली ।।१३