पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६१
षण्णवतितमः सर्गः


रणे रामेण शूरेण राक्षसाश्च पदातयः । रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः ॥ २६
हन्ति नो रामरूपेण यदि वा स्वयमन्तकः । हतप्रवीरा रामेण निराशा जीविते वयम् ॥ २७
अपश्यन्तो भयस्यान्तमनाथा विलपामहे । रामहस्तादशग्रीवः शूरो दत्तमहावरः ।। २८
इदं भयं महाघोरमुत्पन्नं नावबुध्यते । न देवा न च गन्धर्वा न पिशाचा न राक्षसाः ॥ २९
उपसृष्टं परित्रातुं शक्ता रामेण संयुगे । उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे ।। ३०
कथयिष्यन्ति रामेण रावणस्य निबर्हणम् । पितामहेन प्रीतेन देवदानवराक्षसैः ।।३१
रावणम्याभयं दत्तं मानुषेभ्यो न याचितम् । तदिदं मानुषं मन्ये प्राप्तं निःसंशयं भयम् ॥ ३२
जीवितान्तकरं घोरं रक्षसां रावणस्य च । पीड्यमानान्तु बलिना वरदानेन रक्षसा ॥३३
दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् । देवतानां हितार्थाय महात्मा वै पितामहः ॥३४
उवाच देवताः सर्वा इदं तुष्टो महद्वचः । अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः ॥ ३५
भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् । देवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः ॥३६
वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः । प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत् ॥३७
उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा । एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा ।।३८
भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् । रावणम्यापनीतेन दुर्विनीतम्य दुर्मतेः ॥ ३९
अयं निष्ठानको घोरः शोकेन समभिप्लुतः । तं न पश्यामहे लोके यो नः शरणदो भवेत् ॥४०
राघवेणोपसृष्टानां कालेनेव युगक्षये। नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम् ।।४१
दवाग्निमिवेष्टितानां हि करेणूनां यथा वने । प्राप्तकालं कृतं तेन पौलस्येन महात्मना ॥४२
यत एव भयं दृष्टं तमेव शरणं गतः ।।

इतीव सर्वा रजनीचरस्त्रियः परस्परं संपरिरभ्य बाहुभिः ।
विषेदुरार्ता भयभारपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ॥४३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे राक्षसीविलापो नाम पश्चनवतितमः सर्ग:

षण्णवतितमः सर्गः

रावणाभिषेणनम्

आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले । रावणः करुणं शब्द शुश्राव परिदेवितम् ॥ १
स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थिनः । बभूव परमकुद्धो रावणो भीमदर्शनः ।।२