पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८६० श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

राक्षसानां सहस्राणि गदापरिघयोधिनाम् । काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥ २ निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः । रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥ ३ दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः । राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥ ४ विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः । राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् ॥ ५ कथं शूर्पणखा वृद्धा कराला निर्णतोदरी । आससाद वने रामं कन्दर्पमिव रूपिणम् ॥ ६ सुकुमारं महासत्त्वं सर्वभूतहिते रतम् । तं दृष्ट्वा लोकवघ्या सा हीनरूपा प्रकामिता ॥ ७ कथं सर्वगुणैर्हीना गुणवन्तं महौजसम् । सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥ ८ जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा । अकार्यमपहास्यं च सर्वलोकविगर्हितम् ॥ ९ राक्षसानां विनाशाय दूषणस्य खरस्य च । चकाराप्रतिरूपा सा राघवस्य प्रघर्षणम् ॥ १० तन्निमित्तमिदं वैरं रावणेन कृतं महत् । वधाय सीता सानीता दशग्रीवेण रक्षसा ॥ ११ न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् । बद्धं बलवता वैरमक्षयं राघवेण च ॥ १२ वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम् । हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ॥ १३ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् | निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ १४ खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा । शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् ॥ १५ हतो योजनबाहुश्च कबन्धो रुधिराशनः । क्रोधान्नादं नदन् सोऽथ पर्याप्तं तन्निदर्शनम् ॥ १६ जघान बलिनं रामः सहस्रनयनात्मजम् । वालिनं मेरुसंकाशं पर्याप्तं तन्निदर्शनम् ॥ १७ ऋष्यमूके वसञ्शैले दीनो भग्नमनोरथः । सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ॥ १८ एको वायुसुतः प्राप्य लङ्कां हत्वा च राक्षसान् । दग्ध्वा तां च पुनर्यातः पर्याप्तं तन्निदर्शनम् ॥ निगृह्य सागरं तस्मिन् सेतुं बद्धा प्लवङ्गमैः । वृतोऽतरत्तं यद्रामः पर्याप्तं तन्निदर्शनम् ॥ २० धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् । युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ॥ २१ विभीषणवचः कुर्याद्यदि स्म धनदानुजः । श्मशानभूता दुःखार्ता नेयं लङ्कापुरी भवेत् ॥ २२ कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् | अतिकायं च दुर्धर्षं लक्ष्मणेन हतं पुनः ॥ २३ प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते । मम पुत्रो मम भ्राता मम भर्ता रणे हतः ॥ २४ इत्येवं श्रूयते शब्दो राक्षसीनां कुले कुले । रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः ॥ २५