पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिनवतितमः सर्गः ८५७

रावणः पुत्रशोकेन भृशमाकुलचेतनः । संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली ॥ ४० व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः । ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः ॥ ४१ अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः । लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ॥ ४२ बहवः शत्रवश्वापि संयुगेषु निपातिताः । त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ॥ ४३ विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि । तेषां संजल्पमानानामशोकवनिकां गताम् ॥ ४४ अभिदुद्रुद्राव वैदेहीं रावणः क्रोधमूर्छितः । वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः ॥ ४५ अभ्यधावत संक्रुद्धः खेग्रहो रोहिणीमिव । मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ॥ ४६ ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् । तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ॥ ४७ निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम् । सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ॥ ४८ यथायं मामभिक्रुद्धः समभिद्रवति स्वयम् । वधिष्यति सनाथां मामनाथामिव दुर्मतिः ॥ ४९ बहुशश्चोदयामास भर्तारं मामनुव्रताम् । भार्या भव रमस्वेति प्रत्याख्यातो ध्रुवं मया ॥ ५० सोऽयं ममानुपस्थाने व्यक्तं नैराश्यमागतः । क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ॥ ५१ अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ । मन्निमित्तमनार्येण समरेऽद्य निपातितौ ॥ ५२ अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः । अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ ॥ ५३ विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः । हनूमतोऽपि यद्वाक्यं न कृतं क्षुद्रया मया ॥ ५४ यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता । नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ॥ ५५ मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति । एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥ सा हि जन्म च बाल्यं च यौवनं च महात्मनः । धर्मकार्यानुरूपं च रुदती संस्मरिष्यति ॥ ५७ निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना । अग्निमारोक्ष्यते नूनमपो वापि प्रवेक्ष्यति ॥ ५८ धिगस्तु कुब्जामसती मन्थरां पापनिश्चयाम् । यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥ ५९ इत्येवं मैथिली दृष्ट्वा विलपन्ती तपस्विनीम् । रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥ ६० एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमाञ्शुचिः । सुपार्श्वो नाम मेधावी राक्षसो राक्षसेश्वरम् ॥ निवार्यमाणः सचिवैरिदं वचनमब्रवीत् । कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ॥ ६२ हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि । वेदविद्याव्रतस्नातः स्वकर्मनिरतः सदा ॥ ६३ स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर । मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव ॥ ६४