पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८५८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

स्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज । अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् ॥ ६५ कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः । शूरो धीमान् रथी खड्गी स्थप्रवरमास्थितः ॥ ६६ हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ॥ स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः । गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्धृतः ॥ ६७

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे सीताहननव्यवसायनिवृत्तिर्नाम त्रिनवतितमः सर्ग:

चतुर्नवतितमः सर्गः गान्धर्वास्त्रमोहनम्

स प्रविश्य सभां राजा दीनः परमदुःखितः । निपसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ॥ १ अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः । रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः ॥ २ सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः । निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ॥ ३ एकं रामं परिक्षिप्य समरे हन्तुमर्हथ । वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः ॥ ४ अथवाहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे । भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ॥ ५ इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः । निर्ययुस्ते स्थैः शीघ्रैर्नानानीकैः सुसंवृताः ॥ ६ परिघान् पट्टसांश्चैव शरखड्गपरश्वधान् । शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति ॥ ७ वानराश्च द्रुमाञ्शैलान् राक्षसान् प्रति चिक्षिपुः । स संग्रामो महान् भीमः सूर्यस्योदयनं प्रति ॥ रक्षसां वानराणां च तुमुलः समपद्यत । ते गदाभिर्विचित्राभिः प्रासैः खङ्गैः परश्वधैः ॥ ९ अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः । एवं प्रवृत्ते संग्रामे ह्युद्भूतं सुमहद्रजः ॥ १० रक्षसां वानराणां च शान्तं शोणितविस्रवैः । मातङ्गरथकूलाश्च वाजिमत्स्या ध्वजद्रुमाः ॥ ११ शरीरसङ्घाटवहाः प्रसस्रुः शाणितापगाः । ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः ॥ १२ ध्वजवर्मरथानश्वान्नानाप्रहरणानि च । आप्लुत्याप्लुत्य समरे राक्षसानां बभञ्जिरे ॥ १३ केशान् कर्णललटांश्च नासिकाश्च प्लवङ्गमाः । रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि न्यकर्तयन् ॥ १४ एकैकं राक्षसं संख्ये शतं वानरपुंगवाः । अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥ १५ तथा गदाभिर्गुर्वीभिः प्रासैः खङ्गैः परश्वधैः । निजघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ॥ राक्षसैर्युध्यमानानां वानराणां महाचमूः । शरण्यं शरणं याता रामं दशरथात्मजम् ॥ १७ ततो रामो महातेजा धनुरादाय वीर्यवान् । प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह ॥ १८