पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८५६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

करेणुसङ्घस्य यथा निनादं गिरिगह्वरे । यौवराज्यं च लङ्कां च रक्षांसि च परंतप ॥ १३ मातरं मां च भार्यां च क्व गतोऽसि विहाय नः । मम नाम त्वया वीर गतस्य यमसादनम् ॥ प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे । स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे ॥ १५ मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः । एवमादिविलापार्तं रावणं राक्षसाधिपम् ॥ १६ आविवेश महान् कोपः पुत्रव्यसनसंभवः । प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः ॥ १७ दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः । ललाटे भ्रुकुटीभिश्च संगताभिर्व्यरोचत ॥ १८ युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधि । कोपाद्विजृम्भमाणस्य वक्त्राद्व्यक्तमभिज्वलन् ॥ १९ उत्पपात सधूमोऽग्निर्वृत्रस्य वदनादिव । स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ॥ २० समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् । तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च ॥ रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः । घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम् ॥ २२ बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम् । तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्त्रबिन्दवः ॥ २३ दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः । दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः ॥ यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव । कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत ॥ २५ तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे । तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् ॥ २६ वीक्षमाणं दिश: सर्वा राक्षसा नोपचक्रमुः । ततः परमसंक्रुद्धो रावणो राक्षसाधिपः ॥ २७ अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे । मया वर्षसहस्राणि चरित्वा दुश्चरं तपः ॥ २८ तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः । तस्यैव तपसो व्युष्ट्या प्रमादाच्च स्वयंभुवः ॥ २९ नासुरेभ्यो न देवेभ्यो भयं मम कदाचन । कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ॥ ३० देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः । तेन मामद्य संयुक्तं रथस्थमिह संयुगे ॥ ३१ प्रतीयात् कोऽद्य मामाजौ साक्षादपि पुरंदरः । यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत् ॥ ३२ देवासुरविमर्दषु मम दत्तं स्वयंभुवा । अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम ॥ ३३ रामलक्ष्मणयोरेव वधाय परमाहवे । स पुत्रवधसंतप्तः शूरः क्रोधवशं गत: ॥ ३४ समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत । प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः ॥ दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् । मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ॥ किंचिदेव हतं तत्र सीतेयमिति दर्शितम् । तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः ॥ ३७ वैदेही नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् । इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् ॥ ३८ उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसम् । निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ॥ ३९