पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् । क्व च स्वजनसंवासः क्व च नीचपराश्रयः ॥ १४
गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा । निर्गुणः स्वजनः श्रेयान् यः परः परएव सः ॥
यः स्वपक्षं परित्यज्य परपक्षं निषेवते । स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ॥ १६
निरनुक्रोशता चेयं यादृशी ते निशाचर । स्वजनेन त्वया शक्यं परुषं रावणानुज ॥ १७
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः । अजानन्निव मच्छीलं किं राक्षस विकत्थसे ॥ १८
राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् । कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ॥ १९
गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसम् । न रमे दारुणेनाहं न चाधर्मेण वै रमे ॥ २०
भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते । धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम् ॥ २१
त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा । हिंसापरस्वहरणे परदाराभिमर्शनम् ॥ २२
त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा । परस्वानां च हरणं परदाराभिमर्शनम् ॥ २३
सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः । महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः ॥ २४
अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता । एते दोषा मम भ्रातुर्जीवितैश्वर्यनाश्नाः ॥ २५
गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः । दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ॥ २६
नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता । अतिमानी च बालश्च दुर्विनीतश्च राक्षस ॥
बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि । अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि ॥
प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम । धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितुं त्वया ॥
युध्यस्व नरदेवेन लक्ष्मणेन रणे सह । हतस्त्वं देवताकार्यं करिष्यसि यमक्षये ॥ ३०
निदर्शय स्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् ।
न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन् सबलो गमिष्यसि ॥ ३१

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे विभीषणरावणिपरस्परनिन्दा नाम सप्ताशीतितमः सर्गः

अष्टाशीतितमः सर्गः
सौमित्रिरावणियुद्धम्

विभीषणवचः श्रुन्या गणिः क्रोधछितः । अब्रवीत् परुषं वाक्यं वगनाभ्युत्पपात ह ॥ १
उद्यतायुधनिम्निंगी रथे मुममलंकृन । कालाश्वयुक्त महति स्थितः कालान्तकोपमः ॥ २
महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् । धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ॥ ३