पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
८४५
अष्टाशीतितमः सर्गः


तं ददर्श महेष्वासो रथे सुसमलंकृतः । अलंकृतममित्रघ्नं राघवस्यानुजं बली ॥ ४
हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् । उवाचैनं समारब्धः सौमित्रिं सविभीषणम् ॥ ५
तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् । अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् ॥ ६
मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे । अद्य वो मामका बाणा महाकार्मुकनिःसृताः ॥ ७
विधमिष्यन्ति गात्राणि तूलराशिमिवानलः । तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यष्टितोमरैः ॥ ८
अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् । क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि ॥ ९
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः । रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः ॥ १०
शायितौ स्थो मया भूमौ विसंज्ञौ सपुर:सरौ । स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं वा यमसादनम् ॥
आशीविषमिव क्रुद्धं यन्मां योद्धं व्यवस्थितः । तच्छ्रुत्वा राक्षसेन्द्रम्य गर्जितं लक्ष्मणस्तदा ॥
अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् । उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया ॥
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् । स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित् ॥
वचो व्याहृत्य जानीषे कृतार्थोऽम्मीति दुर्मते । अन्तर्धानगतेनाजौ यस्त्वयाचरितस्तदा ॥ १५
तस्कराचरितो मार्गो नैष वीरनिषेवित: । यथा बाणपतथं प्राप्य स्थितोऽहं तव राक्षस ॥ १६
दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे । एवमुक्तो धनुर्भीमं परामृश्य महाबलः ॥ १७
ससर्ज निशितान् बाणानिन्द्रजित् समतिंजयः । ते निसृष्टा महावेगाः शराः सर्पविषोपमाः ॥
संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः । शरैरतिमहावेगैर्वेगवान् रावणात्मजः ॥ १९
सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् । स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः ॥ २०
शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः । इन्द्रजित्त्वात्मनः कर्म प्रममीक्ष्याधिगम्य च ॥
विनद्य सुमहानादमिदं वचनमब्रवीत् । पत्रिण: शितधारास्ते शरा मत्कार्मुकच्युताः ॥ २२
आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः । अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण ॥
गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया । अद्य यास्यति सौमित्रे कर्णगोचरतां तव ॥ २४
तर्जनं यमदूतानां सर्वभूतभयावहम् । क्षत्त्रबन्धुः सदानार्यो रामः परमदुर्मतिः ॥ २५
भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् । विशस्तकवचं भूमौ व्यपविद्धशरासनम् ॥ २६
हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया । इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् ॥ २७
हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह । वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मासि राक्षस ॥ २८
अथ कस्माद्वदस्येतत् संपादय सुकर्मणा । अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस ॥ २९