पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४३
सप्ताशीतितमः सर्गः


सोऽभ्युपेत्य शरान् खड्गान् पट्टसांश्च परश्वधान् । अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः । रोषेण महताविष्टो वाक्यं चेदमुवाच ह ॥
युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते। वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥ ३०
बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे । वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३१
हनुमन्तं जिघांसन्तं समुद्यतशरासनम् । रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२
यः स वासवनिर्जेता रावणस्यात्मसंभवः । स एष रथमास्थाय हनुमन्तं जिघांसति ॥ ३३
तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः । जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ ३४
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ।
ददर्श तं पर्वनर्संनिकाशं रणे स्थितं भीमबलं नदन्तम् ॥ ३५

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितामाम्
युद्धकाण्डे रावणिबलकदनं नाम षडशीतितमः सर्गः

सप्ताशीतितमः सर्गः
विभीषणरावणिपरम्परनिन्दा

एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः । धनुष्पाणिनमादाय त्वरमाणो जगाम ह ॥ १
अविदूरं ततो गत्वा प्रविश्य च महद्वनम् । दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥ २
नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् । तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥ ३
इहोपहारं भूतानां बलवान् रावणात्मजः । उपहृत्य ततः पश्चात् संग्राममभिवर्तते ॥ ४
अदृश्यः सर्वभूतानां ततो भवति राक्षसः । निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः ॥ ५
तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम् । विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥ ६
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः । बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ॥ ७
स रथेनाग्निवर्णेन बलवान् रावणात्मजः । इन्द्रिजित् कवची धन्वी सध्वजः प्रत्यदृश्यत ॥ ८
तमुवाच महातेजाः पौलस्त्यमपराजितम् । समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ ९
एवमुक्तो महातेजा मनस्वी रावणात्मजः । अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ १०
इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम । कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ ११
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते । प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण ॥ १२
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः । यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ १३