पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यशीतितमः सर्ग: ८३७

ते चाप्यनुचारास्तस्य वानराञ्जघ्नुरोजसा । सम्कन्धविटपैः सालैः शिलाभिश्च महाबलः ॥ १९
हनुमान् कदनं चक्रे रक्षसां भीमकर्मणाम् । स निवार्य परानीकमब्रवीत्तान् वनौकसः ॥ २०
हनुमान् सनिवर्तध्वं न नः साध्यमिदं बलम् । त्यक्त्वा प्राणान् विवेष्टन्तो रामप्रियचिकीर्षवः ।।
यलिमित्तं हि युध्यामो हता सा जनकात्मजा । इममर्थ हि विज्ञाप्य रामं सुग्रीवमेव च ।। २२
तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् । इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्॥२३
शनैः शनैरसंत्रस्तः सबल: संन्यवर्तन । ततः प्रेक्ष्य हनुमन्तं व्रजन्तं यत्र राघवः ॥ २४
स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् । निकुम्भिलामधिष्ठाय पावकं जुहुवेन्द्रजित् ।।
यज्ञभूम्यां तु विधिवत पावकम्तेन रक्षसा । हृयमानः प्रजञ्चाल मांसशोणितभुक् तदा ॥ २६
सोऽचिः पिनोद्धो ददृशे होमशोणिततर्पिनः । सन्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः ।।
अथेन्द्रजिद्राक्षमभृतये तु जुहाव हव्यं विधिना विधानवित् ।
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ।।२८

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् युद्धकाण्डे हनूमदादिनिर्बेदो नाम द्व्यशीतितमः सर्ग:

त्र्यशीतितमः सर्गः रामाश्चासनम्

राघवश्चापि विपुलं तं राक्षसवनौकसाम । श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥१
सौम्य नूनं हनुमता क्रियते कर्म दुष्करम् । श्रूयते हि यथा भीमः सुमहानायुधस्वनः ।। २
तद्गच्छ कुरु साहाय्यं म्वबलेनाभिसंवृतः । क्षिप्रमूक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ।।३
ऋक्षराजस्तथोक्तस्तु म्वेनानीकन संवृतः । आगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः ।।४
अथायान्तं हनुमन्तं ददर्शक्षपतिः पथि । वानरः कृतसंग्रामैः श्वसद्भिरभिसंवृतम् ॥५
दृष्ट्वा पथि हनूमांश्च नदृक्षबलमुद्यतम् । नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ||६
स तेन हरिसैन्येन संनिक महायशाः। शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ।।७
समरे युध्यमानानामस्माकं प्रेक्षतां पुरः । जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ।।८
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम । तदहं भवतो वृत्तं विज्ञापयितुमागतः ।।९
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छिनः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः ।। १०
तं भूमौ देवसंकाशं पतितं प्रेक्ष्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ।।११