पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८३६
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे
मया रामस्य पश्येमां कोपेन च निषूदिताम् । एषा विशस्ता वैदेही विफलो वः परिश्रमः॥ ३३
ततः खड्गेन महता हत्वा तामिन्द्रजित् स्वयम् । हृष्टः स रथमास्थाय विननाद महास्वनम् ।। ३४
वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः । व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य च ॥ ३५
तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः ।
तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुद्रुवुः ।। ३६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे मायासीतावधो नाम एकाशीतितमः सर्गः

द्वय्शीतितमः सर्गः
हनुमदादिनिर्वेदः
श्रुत्वा तु भीमनिर्ह्नादं शक्राशनिसमस्वनम् । वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥ १
तानुवाच ततः सर्वान् हनुमान् मारुतात्मजः । विषण्णवदनान् दीनांम्त्रम्नान् विद्रवतः पृथक् ।। २
कस्माद्विषण्णवदना विद्रवध्वं प्लवङ्गमाः । त्यक्तयुद्धसमुन्माहाः शूरत्वं क नु वा गनम् ।।
पृष्ठनोऽनुव्रजध्वं मामग्रनो यान्नमाहवे । शूरैरभिजनोपंतग्युक्तं हि निवर्तितम् ।।
एवमुक्ताः सुमंहृष्टा वायुपुत्रेण वानगः । शैलशृङ्गाण्यगांश्चैव जगृहुहूंष्टमानसाः ।।
अभिपतुश्च गर्जन्तो राक्षसान् वानरपमाः । परिवार्य हनूमन्नमन्वयुश्च महाहवे ॥
स तैर्वानरमुत्यैश्च हनुमान् सर्वतो वृनः । हुनाशन इवार्चिप्मानदहच्छत्रुवाहिनीम् ।।
स गक्षसानां कदनं चकार मुमहाकपिः । वृती वानग्सैन्येन कालान्तकयमोपमः ।।
स तु कोपेन चाविष्टः शोकन च महाकपिः । हनुमान् रावणिग्थेऽपातयन्महतीं शिलाम् ।।
तामापतन्ती दृष्दैव स्थः सारथिना नदा । विधेयाश्वसमायुक्तः सुदृरमपवाहितः ।। १०
तमिन्द्रजिनमप्राप्य रथम्थं सहसारथिम् । विवेश धरणी भित्त्वा सा शिला व्यर्थमुद्यता ॥ ११
पतितायां शिलायां तु रक्षसा व्यथिता चमूः । निपतन्त्या च शिलया राक्षसा मथिता भृशम्।।
तमभ्यधावन्शतशी नदन्तः काननौकसः । ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोधताः ॥१३
क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः । वृक्षशैलमहावर्ष विसृजन्तः प्लवङ्गमाः ॥ १४
शत्रूणां कदनं चकुर्नदुश्च विविधैः म्वरैः । वानरेन्तर्महावीर्घोररूपा निशाचराः ।। १५
बीर्यादभिाना यूक्षय॑वेष्टन्न ग्णाजिरे। स्वसैन्यमभिवीक्ष्याथ वानरादितमिन्द्रजित् ।।
प्रगृहीतायुध. क्रुद्धः पगनभिमुखी ययौ । स शरोधानवसृजन् स्वसैन्येनाभिसंवृतः ।।
जघान कपिशाईलान् सुबहून् दृष्टविक्रमः । शूलैरशनिमिः खङ्गैः पट्टसैः कुटमुद्रः ।।