पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकाशीतितमः सर्गः
८३५

हनुमान् पुरतस्तेषां जगाम कपिकुञ्जरः । प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ।। ८
स ददर्श हतानन्दां सीतामिन्द्रजितो रथे। एकवेणीधरां दीनामुपवासकृशाननाम् ।। ९
परिक्लिष्टैकवसनाममृजां राघवप्रियाम् । रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥ १०
तां निरीक्ष्य मुहूर्तं तु मैथिलीत्यध्यवस्य तु । बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ।। ११
तां दीनां मलदिग्धाङ्गी रथस्थां दृश्य मैथिलीम् । बाष्पपर्याकुलमुखो हनुमान् व्यथितोऽभवन् ।। १२
अब्रवीत्तां तु शोकानां निरानन्दा तपस्विनीम् । सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम् ।। १३
किं समर्थितमस्येति चिन्तयन् म महाकपिः । सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥ १४
नद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः । कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ।। १५
तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः । कोशन्तीं राम रामेति मायया योजितां रथे ।। १६
गृहीतमूर्धजां दृष्ट्वा हनुमान् दैन्यमागतः । शोकजं वारि नेत्राभ्यामसृजन्मारुतात्मजः ।। १७
तां दृष्ट्वा चारुसर्वाङ्गं रामस्य महिषां पियाम् । अब्रवीत्पुरुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम् ।। १८
दुरात्मन्नात्मनाशाय केसशपक्षे परामृशः । ब्रह्मर्षीणिां कुले जातो राक्षसी योनिमाश्रितः॥ १९
धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी । नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ॥ २०
अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण । च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली ॥ २१
किं तवैषापराद्धा हि युद्धेन हन्तुमिच्छसि । सीतां च हत्वा न चिरं जीविष्यसि कथंचन ॥ २२
वधर्हिकर्मणानेन मम हस्तगतो ह्यसि । ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः ॥ २३
इह जीवितमुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे । इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः ॥ २४
अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं पति । आपतन्तं महावीर्यं तदनीकं वनौकसाम् || २५
रक्षसां भीमवेगानामनीकं तु न्यवारयत् । स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् ॥ २६
हरिश्रेष्ठं हनुमन्तमिन्द्रजित् प्रत्युवाच ह । सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः ॥ २७
तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः । इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर ॥ २८
सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् । न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम।। २९
पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत् । तमेवमुक्त्वा रुदतां सीतां मायामयी तदा ॥ ३०
शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् । यज्ञोपवीतमाधूय भिन्ना तेन तपस्विनी ॥ ३१
सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना । तामिन्द्रजित् स्वयं हत्वा हनुमन्तमुवाच ह ॥ ३२