पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२७
षट्सप्ततितमः सर्गः

समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् । स बिभेद शितैर्बाणैः सप्तभिः कायभेदनैः ।। ५५
अङ्गदो विन्यथेऽभीक्ष्णं ननाद च मुमोह च । अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे ॥ ५६
दुरासदं हरिश्रेष्ठं रामायान्ये न्यवेदयन् । रामस्तु व्यथितं श्रुत्वा वालिपुत्रं रणाजिरे ।। ५७
व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः । ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् ॥ ५८
अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम् । ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः ।। ५९
रिरक्षिषन्तोऽभ्यपतन्नगदं वानरर्षभाः । जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ॥ ६०
कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः । समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान् ।। ६१
आववार शरौघेण नगेनेव जलाशयम् । तस्य बाणपथं प्राप्य न शेकुरतिवर्तितुम् ॥ ६२
वानरेन्द्रा महात्मानो वेलामिव महोदधिः । तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् ।। ६३
अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः । अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे ॥ ६४
शैलमानुचरं नागं वेगवानिव केसरी। उत्पाट्य च महाशैलानश्वकर्णान् धवान् बहून् ॥ ६५
अन्यांश्च विविधान् वृक्षांश्चिक्षेप च महाबलः । तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् ॥ ६६
कुम्भकर्णात्मजः शीघ्रं चिच्छेद निशितैः शरैः । अभिलक्षेण तीव्रेण कुम्भेन निशितैः शरैः ॥ ६७
आचितास्ते दुमा रेजुर्यथा घोराः शतघ्नयः । द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ॥६८
वानराधिपतिः श्रीमान् महासत्त्वो न वित्यथे । निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् ।। ६९
कुम्भस्य धनुराक्षिण्य बभञ्जेन्द्रधनुष्प्रभम् । अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ॥ ७०
अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिमं द्विपम् । निकुम्भाग्रज वीर्यं ते बाणवेगवदद्भुतम् ॥ ७१
संनतिश्च प्रभावश्च तव वा रावणस्य वा । प्रह्लादबलिवृत्रघ्नकुबेरवरुणोपम् ।। ७२
एकस्त्वमनुजानोऽसि पितरं बलवृत्ततः । त्वामेवैकं महाबाहुं चापहस्तमरिंदमम् ।। ७३
त्रिदशा नातिवर्तन्ते जिनेन्द्रियभिवाधयः । विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः ॥ ७४
वरदानात् पितृव्यस्ते सहते देवदानवान् । कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ।। ७५
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च। त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ॥ ७६
महाविमर्दं समरे मया सह तवाद्भुतम् । अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ।। ७७
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् । पातिता हरिवीराश्च त्वया वै भीमविक्रमाः ॥ ७८
उपालम्भभयाच्चापि नासि वीर मया हतः। कृतकर्मपरश्रान्तो विश्रान्तः पश्य मे बलम् ।। ७९
तेन सुग्रीववाक्येन सावमानेन मानितः । अग्नेराज्याहुतस्येव तेजस्तस्याभ्यवर्धत ।। ८०
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा। गजाविवाहितमदौ निःश्वसन्तौ मुहुर्मुहुः ।। ८१