पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

अन्योन्यगात्रग्रथितौ कर्षन्तावितरेतरम् । विधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ।। ८२
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही । व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ॥ ८३
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि । पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥ ८४
ततः कुम्भनिपातेन जलराशिः समुत्थितः । विन्ध्यमन्दरसंकाशो विससर्प समन्ततः ॥ ८५
ततः कुम्भः समुत्पत्य सुग्रीवमभिपत्य च । आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ।। ८६
तस्य चर्म च पुस्फोट बहु सुस्राव शोणितम् । स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥ ८७
तदा वेगेन तत्रासीत्तेजः प्रज्वलितं मुहुः । वज्रनिष्पेषसंजाता ज्वाला मेरौ यथा गिरौ ॥ ८८
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।।
अर्चिःसहस्रविकचं रविमण्डलसप्रभम् । स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ।।
स तु तेन प्रहारेण विह्वलो भृशताडितः । निपपात तदा कुम्भो गतार्चिरिव पावकः ।।
मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः । लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ।
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना । बभौ रुद्राभिपन्नम्य यथा रूपं गवांपतेः ।। ९३
तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे ।
मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ।। ९४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां
 संहितायाम्
युद्धकाण्डे कम्पनादिवधो नाम पट्सप्तितमः सर्ग:

सप्ततितमः सर्गः:
निकुम्भवधः
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् । प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ।। १
ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् । आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥ २
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् । यमदण्डोपमं भीमं रक्षसां भयनाशनम् ।। ३
तमाविध्य महातेजाः शक्रध्वजसमं तदा । विननाद विवृत्ताभ्यो निकुम्भो भीमविक्रमः ॥ ४
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि । कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ॥ ५
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च । यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ।। ६
परिघाग्रेण पृस्फोट वातग्रन्थिर्महात्मनः । प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ ७