पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२६
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् । प्रजङ्घस्य शिरः कायात् खड्गेनापातयत् क्षितौ ।।
स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे । अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे ।। २७
तमापनन्तं संप्रेक्ष्य यूपाक्षं द्विविदस्त्वरन् । आजघानोरसि क्रुद्धो जग्राह च बलाद्बली ।। २८
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः । आजघान गदाग्रेण वक्षसि द्विविदं ततः ॥ २९
स गदाभिर्हतस्तेन चचाल च महाबलः । उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ॥ ३०
एतस्मिन्नन्तरे वीरो मैन्दो वानरयूथपः । यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ।। ३१
तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ । चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥ ३२
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे । निष्पिपेष च वेगेन क्षितावाविध्य वीर्यवान् ॥ ३३
यूपाक्षमपि संक्रुद्धो मैन्दी वानरयूथपः । पीडयामास बाहुभ्यां स पपात हतः क्षितौ ॥ ३४
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा । जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ।। ३५
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् । अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवङ्गमैः ॥ ३६
निपातितामहावीरं दृष्ट्वा रक्षश्चमूं ततः । कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥ ३७
सधनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः । मुमोचाशीविषप्रख्याञ् शरान् देह विदारणान् ॥ ३८
तस्य तच्छुशुभे भूयहः सशरं धनुरुत्तमम् । विद्युदैरावतार्चिष्मद् द्वितीयेन्द्रधनुर्यथा ।। ३९
आकर्णीकृष्टमुक्तेन जघान द्विविदं तदा । तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥ ४०
सहसाभिहतस्तेन विषमुक्तपदः स्फुरन् । निपपाताद्रिकूटाभो विह्वल: प्लवगोत्तमः ।। ४१
मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे। अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ।। ४२
तां शिलां नु प्रचिक्षेप राक्षसाय महाबलः । बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ।। ४३
संधाय चान्यं सुमुखं शरमाशीविषोपमम् । आजघान महातेजा वक्षसि द्विविदाग्रजम् ।। १४
स तु तेन प्रहारेण मैन्दो वानरयूथपः । मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः ॥ ४५
अङ्गदो मातुलौ दृष्ट्वा पतितौ महाबलौ । अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ।। ४६
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः । त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः ।। ४७
सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् । अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ।। ४८
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते । शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ।। ४९
स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः । कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् ॥ ५०
आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम् । भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् ।। ५१
तस्य सुस्राव रुधिरं पिहिते चास्य लोचने । अङ्गन्दः पाणिना नेत्रे पिधाय रुधिरोक्षिते ॥ ५२
सालमासन्नमेकेन परिजग्राह पाणिना। संपीढ्य चोरसि स्कन्धं करेणाभिनिवेश्य च ॥ ५३
किंचिदभ्यचनम्यैनमुन्ममाथ यथा गजः । तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् ।। ५४