पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह । यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा ।। ४६
निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् । शशास चैव तान् सर्वान् राक्षसान् सुमहाबलान् ॥ ४७
नादयन् गच्छतात्रैव जयध्वं शीघ्रमेव च । ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ॥ ४८
लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः । रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः ।। ४९
चक्रुस्ते सप्रमं व्योम हरयश्चाग्निभिः सह । तत्र ताराधिपस्याभा ताराणां च तथैव च ॥ ५०
तयोराभरणस्था च बलयोर्ध्यामभासयन् । चन्द्रामा भूषणाभा च गृहाणां ज्वलतां च भाः ॥ ५१
हरिराक्षससैन्यानि भ्राजयामास सर्वतः । तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः ॥ ५२
भाभिः संसक्तपातालश्चलोर्मिः शुशुभेऽधिकम् । पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् ।। ५३
भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् । दीप्तशूलगदा खड्गप्रासतोमरकार्मुकम् ।। ५४
तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् । ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ॥ ५५
हेमजालाजितभुजं व्यावेष्टितपरश्वधम् । व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ॥ ५६
गन्धमाल्यमधूत्सेकसंमोदितमहानिलम् । घोरं शूरजनाकीर्णं महाम्बुधनिस्वनम् ॥ ५७
तदृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् । संचचाल प्लवङ्गानां बलमुच्चैर्ननाद च ।। ५८
जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत् । अभ्ययात् प्रत्यरिबलं पतङ्गा इव पावकम् ॥ ५९
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि । राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ।। ६०
तत्रोन्मत्ता इवोत्पेतुर्हरर्याऽथ युयुत्सवः । तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ।। ६१
तथैवापततां तेषां कपीनामसिभिः शितैः । शिरांसि सरसा जह्रू राक्षसा भीमदर्शनाः ॥ ६२
दशनैर्हृतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः । शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र
 राक्षसाः ॥
तथैवाप्यपरे तेषां कपीनामभिलक्षिताः । प्रवीरानभितो जघ्नुः राक्षसानां तरस्विनाम् ||
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः । हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ।।
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् । गर्हमाणं जगर्हेऽन्यो दशन्तर परोऽदशत् ।। ६६
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः । किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ ६७
विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम् । समुद्यतमहाप्रासं यष्टिशूलासिसंकुलम् ॥
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् । वानरान् दश सप्तेति राक्षसा जघ्नुराहवे ॥
राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन् । विस्रस्तकेशवसनं विध्वस्तकवचध्वजम् ॥
बलं राक्षसमालम्ब्य वानराः पर्यवारयन् । ववृधे तुमुलं युद्ध रक्षसां वानरैः सह ।। ७१
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे लङ्कादाहो नाम पञ्चसप्ततितमः सर्ग: