पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्सप्ततितमः सर्गः
८२५

षट्सप्ततितमः सर्गः
कम्पनादिवधः
प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये। अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ।। १
आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः। गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥ २
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः। अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥ ३
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे । रथेनाभ्यपतत क्षिप्रं तत्राङ्गदमभीतवत् ।। ४
सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः । शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ।। ५
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः । कर्णिशल्यविपाटैश्च बहुभिर्निशितैः शरैः ।। ६
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् । धनुरग्र्यं रथं बाणान् ममर्द तरसा बली ।। ७
शोणिताक्षस्ततःक्षिप्रमसिचर्म समाददे । उत्पपात दिवं क्रुद्धो वेगवानविचारयन् ॥ ८
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली । करेण तस्य तं खड्गं समाच्छिद्य ननाद च ॥९
तस्यांसफलके खड्गं निजघान ततोऽङ्गदः । यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ।। १०
तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः । वालिपुत्रोऽभिदुद्राव रणशीर्षे परानरीन् ।। ११
आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः । शोणिताक्षः समाविध्य तमेवानुपपात ह ॥ १२
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली । रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ।। १३
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ॥ १४
अङ्गदं परिरक्षन्तो मैन्दो द्विविद एव च । तस्य तस्थतुरभ्याशे परस्परदिदृक्षया ।। १५
अभिपेतुर्महाकायाः प्रतिपत्ता महाबलाः । राक्षसा वानरान् रोषाद सिचर्मगदाधराः ।। १६
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुंगवैः । संसक्तानां महद्युद्धमभवद्रोमहर्षणम् ।। १७
ते तु वृक्षान् समादाय संप्रचिक्षिपुराहवे । बङ्गेन प्रतिचिच्छेद तान् प्रजचा महाबलः ॥ १८
स्थानश्वान् द्रुमैः शैलेन्ते प्रचिक्षिपुराहवे । शरौघैः प्रतिचिच्छेद तान् यूपाक्षो निशाचरः।। १९
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान् । बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ॥ २०
उद्यम्य विपुलं खङ्गं परमर्मनिकृन्तनम् । प्रजङ्घां वालिपुत्राय अभिदुद्राव वेगितः ।। २१
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः । आजधानाश्वकर्णेन द्रुमेणातिबलस्तदा ।।२२
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना । वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥ २३
तं दृष्ट्वा पतितं भूमौ खड्गमुत्पलसंनिभम् । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।। २४
ललाटे स महावीर्यमङ्गदं वानरर्षभम् । आजघान महातेजाः स मुहूर्तं चचाल ह ॥ २५