पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चसप्ततितमः सर्गः
८२३
अदहत् पावकस्तत्र जज्वाल च पुनः पुनः । सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ॥ १८
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोत्तमानि च । रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ॥ १९
मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् । क्रौश्चबर्हिणवीणानां भूषणानां च निःस्वनैः ॥२०
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः । ज्वलनेन परीतानि तोरणानि चकाशिरे ॥ २१
विध्युद्भिरिव नद्धानि मेघजालानि घर्मगे । ज्वलनेन परीतानि निपेतुर्भवनान्यथ ।। २२
वज्रिवज्रहतानीव शिखराणि महागिरेः । विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ।। २३
त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः । तानि निर्दह्यमानानि दूरतः प्रचकाशिरे । २४
हिमवच्छिखराणीव दीप्तौषधिवनानि च । हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि । २५
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः । हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ।
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः । अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतोऽपसर्पति ॥२७
भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते । लङ्कायां दह्यमानायां शुशुभे स महार्णवः ।। २८
छायासंसक्तसलिलां लोहितोद इवार्णवः । सा बभूव मुहूर्तेन हरिभिर्दीपिता पूरी ॥
लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा । नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः॥
स्वनो ज्वलनतप्तस्य शुश्रुवे दाशयोजनम् । प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः ।।
सहसाभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः । उद्घुष्टं वानराणां च राक्षसानां च निस्वनः ॥३२
दिशो दश समुद्रं च पृथिवीं चान्वनादयत् । विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ ।।
असंभ्रान्तौ जगृहतुस्तदोभे धनुषी वरे । ततो विस्फारयानस्य रामस्य धनुरुत्तमम् ।। ३१
बभूव तुमुल: शब्दो राक्षसानां भयावहः । अशोभत तदा रामो धनुर्विस्फारयन् महत् ॥ ३५
भगवानिव संक्रुद्धो भयो वेदमयं धनुः । उद्घुष्टं वानराणां च राक्षसानां च निस्वनम् ॥ ३६
ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे । वानरोद्घुष्टघोपश्च राक्षसानां च निस्वनः ॥ ३७
ज्याशब्दश्चापि रामस्य त्रयं व्याप्तं दिशो दश । तस्य कार्मुकमुक्तैश्च शरैस्तत् पुरगोपुरम् ।।
कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि । ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च । ३९
संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत । तेषां संनह्यमानानां सिंहनादं च कुर्वताम् ।।
शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत। आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना ।।
आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः । यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः ।। ४२
स हन्तव्यो हि संप्लुत्य राजशासनदूषकः । तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ॥ ४३
स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् । तस्य जृम्भितविक्षोभाध्व्यामिश्रा वै दिशो दश।।४४
रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत । स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ ॥