पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःसप्ततितमः सर्गः

वज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च ।
ब्रह्मासनं शंकरकार्मुकं च ददर्श नाभिं च वसुंधरायाः ।
कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् ।
संदीप्तसर्वौषधसंप्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ।।
स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः ।
आवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ।।
स योजनसहस्राणि समतीत्य महाकपिः। दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥
महौषध्यस्तुता सर्वास्तस्मिन् पर्वतसत्तमे । विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥
स ता महात्मा हनुमानपश्यंश्चुकोप कोपाच्च भृशं ननाद ।
अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥
किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः ।
पश्याध्य मद्बाहुबलाभिभूतो विशीर्णमात्मानमथो नगेन्द्र ।।
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् ।
विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात सहसोन्ममाथ ।।
स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान् ।
संस्तूयमान खचरैरनेकैर्नगाम वेगाद्गरुडोग्रवेगः ॥
स भास्कराध्वानमनुपपन्नस्तं भास्कराभं शिखरं प्रगृह्य ।
बभौ तदा भास्करसनिकाशो स्वे समीपे प्रतिभास्कराभः ॥
स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु ।
सहस्रधारण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ।।
तं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद ।
तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ।।
ततो महात्मा निपपात तस्मिञ्शैलोत्तमे वानरसैन्यमध्ये।
हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र स सस्वजे च ॥
तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् ।
बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥