पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

सर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः ।
गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव संप्रबुद्धाः ।। ७४
यदाप्रभृति लङ्कायां युध्यन्ते कपिराक्षसाः । तदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ ७५
ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः । हताहतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ ७६
ततो हरिर्गन्धवहात्मजस्तु तमोपधीशैलमुदग्रवीर्यः ।
निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ।। ७७
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे ओषधिपर्वतानयनं नाम चतुःसप्ततितमः सर्ग:

पञ्चसप्ततितमः सर्गः

लङ्कादाह.
ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः । अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ॥ १
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः । नेदानीमुपनिर्हारं रावणो दातुमर्हति ।। २
ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः । लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥ ३
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे । लङ्कामभिमुखा सोल्का जग्मुस्ते प्लवगर्षभाः॥ ४
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः । आरक्षस्थ विरूपाक्षाः सहसा विप्रदुद्रुवुः ।। ५
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च । प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ।। ६
तेषां गृहसहस्राणि ददाह हुनभुक्तदा । प्रासादाः पर्वताकाराः पतन्ति धरणीतले ॥ ७
अगरुर्दह्यते तत्र वरं च हरिचन्दनम् । मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम् ॥ ८
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् । आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् ।। ९
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ । गजग्रैवेयकक्ष्याश्च स्थभाण्डाश्च संस्कृताः ॥ १०
तनुत्राणि च योधानां हस्त्यश्वानां च चर्म च । खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः।। ११
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु । मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः ॥ १२
विविधानस्त्रसंयोगानग्निर्दहति तत्र वै। नानाविधान् गृहच्छन्दान् ददाह हुतभुक्तदा ।। १३
आवासान् राक्षसानां च सर्वेषां गृहगर्धिनाम् । हेमचित्रतनुत्राणां स्नग्दामाम्बरधारिणाम्।। १४
शीधुपानचलाक्षाणां मदविह्वलगामिनाम् । कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम् ।। १५
गदाशूलासिहस्तानां खादतां पिबतामपि । शयनेषु महार्हेषु प्रमुप्तानां प्रियैः सह ॥ १६
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः । तेषां शतसहस्राणि तदा लहानिवासिनाम्।। १७