पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःसप्ततितमः सर्गः ८१०

स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् । प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ।।
दृष्ट्वा तमुपसंगम्य पौलस्त्या वाक्यमब्रवीत् । कच्चिदार्य शरैम्तीक्ष्णैः प्राणा न ध्वंसितास्तव।। १५
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः । कृच्छादम्युद्गिग्न् वाक्यमिदं वचनमब्रवीत् ।।
नैर्ऋतेन्द्र महावीर्य म्वरेण स्वाभिलक्षये । पीड्यमानः शितैर्वाणर्न त्वां पश्यामि चक्षुषा ॥१७
अञ्जना सुप्रजा येन मानरिश्वा स नैर्ऋत । हनुमान् वानरश्रेष्ठः प्राणान् धारयते कचित् ॥१८
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः । आर्यपुत्रावतिक्रम्य कस्मात पृच्छसि मारुतिम् ॥
नैव राजनि सुग्रीव नाङ्गदे नापि राघवे । आर्य सदर्शितः म्नेहः यथा वायुसुते परः ॥ २०
विभीषणवचः श्रुत्वा जाम्बवान वाक्यमब्रवीत्। शृणु नैर्ऋनशाईल यस्मात पृच्छामि मारुतिम् ।।
तस्मिञ्जीवति वीरे तु हनमप्यहतं बलम् । हनुमन्युझिनप्राणे जीवन्तोऽपि वयं हताः॥ २२
धरने मामनिम्तान मारुतप्रतिमो यदि । वैश्वानरसमो वीर्ये जीविताशा नतो भवेत् ॥ २३
ततो वृद्धमुपागम्य नियमेनाभ्यवादयत । गृह्य जाम्बवतः पादौ हनुमान् मारुनात्मजः ।। २४
श्रुन्वा हनुमती वाक्यं नथापि व्यथितेन्द्रियः । पुनर्जानमिवात्मानं मन्यते स्मर्फपुंगवः ॥
नतोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् । आगच्छ हरिशादल वानरांस्त्रातुमर्हसि ॥ २६
नान्यो विक्रगपर्याप्तम्त्वमेपा परम मन्वा । वत्पराक्रमकालोऽयं नान्यं पश्यामि कंचन ॥२७
ऋक्षवानरवीराणामनीकानि प्रहर्षय । विगल्यौ कुम चाप्येती सादिती रामलक्ष्मणौ ।।
गत्वा परममध्वानमुपर्युपरि मागरम् । हिमवन्तं नगश्रेष्ठं हनुमन् गन्तुमर्हसि ।। २९
ततः काञ्चनमत्युञ्चमृषभं पर्वतोत्तमम् । कैलामशिवरं चापि द्रक्ष्यस्यरिनिषूदन ।
३०
तया शिवग्यामध्ये प्रदीप्तमतुलप्रभम् । मरूषधियुतं वीर द्रक्ष्यम्योपधिपर्वतम् ॥ ३१
तम्य वानरशार्दूल चनस्रो मुर्भि संभवाः । द्रक्ष्यम्योषधयो दीमा दीपयन्त्यो दिशो दश ॥३२
मृतसंजीवनी चैव निशन्यकरणीमपि । मावर्ण्यकरणी चैव संधानकरणी नथा ।।
३३
ताः सर्वा हनुमन् गृह्म क्षिप्रमागन्तुमर्ह मि । आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ॥ ३४
श्रुत्वा जाम्बवतो वाक्यं हनुमान् हरिपुंगवः । आपूर्यन बलोद्ध.म्तोयवेगैरिवार्णवः ।।
३५
म पर्वनतटाग्रन्थः पीडयन् पर्वतोत्तमम् । हनुमान् दृश्यने वीरो द्वितीय इव पर्वतः ।।
हरिपादविनिर्भमो निषसाद म सर्वनः । न शशाक तदात्मानं सोढुं भृशनिपीडितः ।।
तस्य पेतुर्नगा भूमौ हरिवेगाच जज्वलः । शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥ ३८
तस्मिन् संपीड्यमाने तु भमद्रुमशिलातले । न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ।। ३९
सा पूर्णितमहाद्वारा प्रभमगृहगोपुरा । लहा त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ।
पृथिवीधरसकाशो निपीड्य धरणीधरम् । पृथिवी क्षोभयामास सार्णवां मारुतात्मजः ॥
आरुरोह तदा तस्माद्धरिमलयपर्वतम् । मेरुमन्दरसंकाशं नानाप्रसवणाकुलम् ।।