पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः सर्गः

जया च सुप्रमा चैव दक्षकन्ये सुमध्यमे । ते सुबातेऽस्वशस्त्राणि शतं परमभास्वरम् ॥ १५ पश्चाशतं सुतॉंल्लेभे जया नाम वराङ्गना । वधायासुरसैन्यानाममेयान् कामरूपिणः ।। १६ सुप्रभा जनयामास पुत्रान् पञ्चाशतं पुनः । संहारानाम दुर्धर्षान दुराकामान बलीयसः ॥ १७ तानि चाखाणि वेत्त्येष यथावत्कुशिकान्मजः । अपूर्वाणां च जनने शक्तो भूयः म धर्मवित् ।। १८ तेनास्य मुनिमुख्यस्य सर्वज्ञस्य महात्मनः । न किंचिदयविदितं भूतं भव्यं च राघव ॥ १९ एवंवीर्यो महातेजा विश्वामित्रो महायशाः । न गमगमने राजन संशयं गन्तुमर्हसि ।। २० तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः । तव पुत्रहितार्थाय त्वामुपेत्याभियाचने ।। २१ इति मुनिवचनात् प्रसन्नचित्तो रघुवृपभश्च मुमोद भास्वराङ्गः । गमनमभिरुरोच राघवम्य प्रथिनयशाः कुशिकात्मजाय बुद्धया ॥२२ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहिताया बालकाण्डे वसिष्ठवाक्य नाम एकविंशः सर्गः

द्वाविंशः सर्गः विद्याप्रदानम् तथा वसिष्ठ ब्रुवति राजा दशरथः सुतम । प्रह्लप्टवदनो गममाजुहाय सलक्ष्मणम ॥१ कृतग्वन्त्ययनं मात्रा पित्रा दशरथेन च । पुरोघसा वमिष्टेन मङ्गलैभिमन्त्रितम ।।२ स पुत्रं मूर्घ्न्यपाघाय राजा दशरथः प्रियम । ददौ कुशिकपुत्राय सुप्रीतेनान्तगन्मना ।। ३ ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा । विश्वामित्रगतं दृष्ट्वा रामं राजीवलोचनम ॥ ४ पुष्पवृष्टिर्सहत्यासीद्देवदुन्दुर्भािनःस्वनैः । शङ्खदुन्दुर्भािनर्घोपः प्रयाते तु महात्मनि ।।५ विश्वामित्रो ययावग्रे ततो रामो महायशाः । काकपक्षधरो धन्वी तं च सौमित्रिग्न्वगात् ।। ६ कलापिनौ धनुप्पाणी शोभयानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीपाविव पन्नगौ ।।७ अनुजम्मतुरक्षुद्रौ पितामहमिवाश्विनौ । नदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृनौ ॥८ बद्धगोधाङ्गुलित्राणी खड़गवन्तौ महाद्युती । कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ॥९ अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ । स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ॥ १०