पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायण बालकाण्डे

अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे । रामेति मधुरां वाणी विश्वामित्रोऽभ्यभाषत ॥ ११ गृहाण वत्स सलिलं मा भूत कालस्य पर्ययः । सन्त्रग्राम गृहाण त्वं बलामतिबलां तथा ।। १२ न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः। न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः॥१३ न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन। त्रिषु लोकेषु वै राम न भवेत् सदृशस्तव ॥ १४ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये। नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥१५ एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव । बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥१६ बलामतिबलां चैव पठत. पथि राघव । क्षुत्पिपासे न ते राम भविष्येते नरोत्तम ।।१७ विद्याद्वयमधीयाने यशश्वाप्यतुलं त्वयि । पितामहसुते लेते विद्ये तेजःसमन्विते ॥ १८ प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक । काम बहुगुणाः सर्वे त्वय्येते नात्र संशयः ॥ १९ तपसा संभृते चैते बहुरूपे भविष्यतः । ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ।।२० प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः । विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ।। २१ सहस्ररश्मिर्भगवान शग्दीव दिवाकरः । गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।।२२ ऊषुस्तां रजनीं तीरे सग्य्वाः सुसुखं त्रयः॥ दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते सहोषिताभ्याम । कुशिकसुतवचोऽनुलालिताभ्यां श्रणमिव सा विबभौ विभावरी च।। २३ इत्यार्षे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकाया सहिताया बालकाण्डे विद्याप्रदान नाम द्वाविशः सर्गः


त्रयोविंशः मर्गः कामाश्रमवाम:


प्रभातायां तु शर्वर्या विश्वामित्रो महामुनिः । अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे ॥१ कौसल्या सुप्रजा राम पूर्वा संघ्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं देवमाह्निकम् ॥२ तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ । स्नात्वा कृतोदको वीरौ जेपतुः परमं जपम् ।। ३ कृताह्निकौ महावीर्यो विश्वामित्रं तपोधनम् । अभिवाद्याभिसंह्यष्टौ गमनायोपतस्थतुः ।।४ तौ प्रयातौ महावीर्यों दिव्यां त्रिपथगां नदीम । ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥ ५ तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम । बहुवर्षसहस्राणि तप्यतां परमं तपः ॥ ६ तं दृष्टा परमप्रीतौ गघवौ पुण्यमाश्रमम । ऊचतुस्नं महात्मानं विश्वामित्रमिदं वचः ॥७