पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे

बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम । अथ कालोपमो युद्धे सुतौ सुन्दोपसुन्दयोः ॥२४ यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् । तयोरन्यतरेणाहं योद्धा स्यां ससुह्यद्गणः ।। २६ अन्यथा त्वनुनेष्यामि भवन्तं सह बान्धवैः इति नरपतिजल्पनाद्विजेन्द्र कुशिकमुतं सुमहान विवेश मन्युः । सुहुत इव मखेऽग्निराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः ।।२७ इत्यार्षे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकाया संहितायां बालकाण्डे दशरथवाक्ये नाम विंशः सर्गः

एकविंशः सर्गः वसिष्ठवाक्यम् तच्छ्रुत्वा वचनं तम्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम ॥१ पूर्वमर्थ प्रतिश्रुत्य प्रतिज्ञा हातुमिच्छसि । राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ।।२ यदीदं ते क्षमं राजन गमिप्यामि यथागतम । मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ।। ३ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः । चचाल वसुधा कृत्स्ना विवेश च भयं सुरान ॥ ४ त्रस्तरूपं तु विज्ञाय जगन् सर्वं महानृषिः । नृपतिं सुव्रतो धोरो वसिष्ठो वाक्यमब्रवीत ॥५ इक्ष्वाकूणां कुलं जातः साक्षाद्धर्म इवापरः । वृतिमान सुव्रतः श्रीमान्न धर्म हातुमर्हसि ।।६ त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः । स्वधर्म प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ।।७ संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव । इष्टापूर्तवधो भूयानस्माद्रामं विसर्जय ।।८ कृतास्त्रमकृतास्त्र वा नैनं शक्ष्यन्ति राक्षसाः । गुप्त कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥९ एष विग्रहवान् धर्म एप वीर्यवतां वरः । एष बुद्धयाधिको लोक तपसश्च परायणम ॥ १० एषोऽस्त्रान् विविधान वेत्ति त्रैलोक्ये सचराचरे । नैनमन्यः पुमान वेत्ति न च वेत्स्यन्ति केचन ॥११ न देवा नर्पयः कचिन्नासुरा न च राक्षसाः । गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः ।।१२ सर्वास्त्राणि भृशाश्वम्य पुत्राः परमधार्मिकाः । कौशिकाय पुरा दत्ता यदा राज्य प्रशासति ।। १३ तेऽपि पुत्रा भृशाश्वस्य प्रजापतिसुतासुताः । नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ।।१४