पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टषष्टितमः सर्गः

ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः ।
सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण ।।
ततस्तु ते तस्य वधेन भरिणा मनखिनो नैर्ऋतगजबान्धवाः ।
विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा सुरार्दिताः ॥
स देवलोकम्य तमो निहत्य सूर्यो यथा गहुमुखाद्विमुक्तः ।
तथा व्यभासीद्भुवि वानरौधे निहत्य गमो युधि कुम्भकर्णम् ।।
प्रहर्षमीयुर्बह्वस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः ।
अपूजयन् राघवमिष्टभागिनं हते रिपी भीमबले दुरासदे ।।
स कुम्भकर्ण सुरसङ्घमर्दनं महत्नु युद्धषु पराजितश्रमम् ।
ननन्द हत्वा भरताग्रजो रणे महामुरं वृत्रमिवामराधिपः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे कुम्भकर्णवधी नाम गप्तपष्टितमः सर्गः अष्टषष्टितमः सर्गः रावणानुशोकः

कुम्भकर्णं हतं दृष्टा राघवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। १
राजन् स कालसंकाशः संयुक्तः कालधर्मणा' । विद्राव्य वानरी सेनां भक्षयित्वा च वानरान् ।।
प्रतपिन्वा मुहूर्तं च प्रशान्तो रामतेजमा । कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ।। ३
निकृत्तकण्ठोरमुजो विक्षरन् रुधिरं बहु । रुद्वा द्वारं शरीरण लङ्कायाः पर्वतोपमः ।।
कुम्भकर्णस्तव भ्राता काकुत्स्थगरपीडितः । अगण्डभूतो विकृती दावदग्ध इव द्रुमः ।।
ममार राक्षसो घोरः कुम्भकर्णो महाद्युतिः । तं श्रुत्वा निहतं संख्ये कुम्भकर्णं महाबलम् ॥६
रावणः शोकसंतप्तो मुमोह च पपात च । पितृव्यं निहतं श्रुत्वा देवान्नकनरान्तकौ ।।
त्रिशिराश्चातिकायश्च रुरुदुः गोकपीडिताः । भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा ।।
महोदरमहापाचौं शोकाक्रान्तौ बभूवतुः । ततः कृच्छ्रात् समामाद्य संज्ञां राक्षसपुंगवः ।।
कुम्भकर्णवधाद्दीनो विललाप स रावणः । हा पीर रिपुदर्पन्न कुम्भकर्ण महाबल ॥