पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८०० श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

त्वं मां विहाय वै दैवाद्यातोऽसि यमसादनम् । मम शल्यमनुद्धृत्य बान्धवानां महाबल ॥११
शत्रुसैन्यं प्रताप्यैकः क मां संत्यज्य गच्छसि। इदानीं ग्वल्वहं नास्मि यस्य मे दक्षिणो भुजः।।
पतितो यं समाश्रित्य न बिभेमि सुरासुरात् । कथमेवंविधो वीरो देवदानवदर्पहा ।। १३
कालाग्निरुद्रप्रतिमो राघवेण रणे हनः । यस्य ते वज्रनिष्पेपो न कुर्याद्यसनं सदा ॥
स कथं रामबाणातः प्रसुप्तोऽसि महीतले । एते देवगणाः सार्धमृषिभिर्गगने स्थिताः ॥ १५
निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः । ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः ।।
आरोक्ष्यन्ति हि दुर्गाणि लकाद्वाराणि सर्वशः। राज्येन नास्ति मे कार्य किं करिष्यामि सीतया ॥
कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः । यद्यहं भ्रातृहन्तारं न इन्मि युधि राघवम् ॥१८
ननु मे मग्णं श्रेया न चेद व्यर्थजीविनम् । अद्यैव तं गमिष्यामि देशं यत्रानुजो मम ॥ १९
न हि भ्रानुन् समुत्सृज्य क्षणं जीवितुमुत्सहे। देवा हि मां हसिप्यन्ति दृष्ट्वा पूर्वापकारिणम् ॥
कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि । तदिदं मामनुप्राप्तं विभीषणवचः शुभम् ॥ २१
यदज्ञानान्मया तम्य न गृहीतं मामन । विभीषणवची यावत कुम्भकर्ण महम्नयों ॥ २२
विनाशोऽयं ममुत्पन्नो नां बीडयति दारण. । तम्याहं कर्मणः प्रामो विपास मम शोकदः ॥
यन्मया धार्मिकः श्रीमान् म निरम्तो विभीषणः ॥
इति बहुविधमाकुलान्लगमा कृपणमनीव विलप्य कुम्भकर्णम् ।
न्यपनदथ दशाननो भृगार्नम्नमनुजमिन्द्ररिपुं हनं विदिन्या ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे रावणानुशोको नाम अष्टषष्टिनमः मग एकोनमप्ततितमः सर्गः नरान्तकवधः

एवं विलपमानम्य रावणम्य दुगत्मनः । श्रुत्वा शोकाभितप्तम्य त्रिशिरा वाक्यमब्रवीत् ।। १
एवमेव महावीर्यो हतो नम्नानमध्यम. । न तु मत्पुरुषा राजन् विलपन्ति यथा भवान् ॥ २
नूनं त्रिभुवनम्यापि पर्याप्तम्त्वमसि प्रभो । स कम्मान प्राकृत इव शोचम्यात्मानमीदृशम् ॥ ३
ब्रह्मदत्तास्ति ते शक्तिः कवच: मायको धनुः 1 सहस्रग्वरसंयुक्तो स्थो मेघम्बनो महान् ॥
त्वयासकृद्विशस्त्रण विशम्ना देवदानवा. । म सर्वायुधसंपन्नी गघवं शाम्तुमर्हसि ॥
कामं तिष्ठ महाराज निर्गमिप्याम्यहं रणम् । उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ॥ ६
शम्बरो देवराजेन नरको विष्णुना यथा 1 नथाद्य शयिता रामो मया युधि निपातितः ॥
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः । पुनर्जानमिवात्मानं मन्यते कालचोदितः ॥ ८