पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७९८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः ।
विवेष्टमानोऽभिजघान वृक्षाशैलाशिला वानरराक्षसांश्च ।। १७३
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् ।
द्वावर्धचन्द्रौ निशितौ प्रगृह्म चिच्छेद पादौ युधि राक्षसस्य ।। १७४
तौ तस्य पादौ प्रदिशो दिशश्च गिरीन् गुहाश्चैव महार्णवं च ।
लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ।।
१७५
निकृत्तबाहुविनिकृत्तपादो विदार्य वक्त्रं बडबामुग्वाभम् ।
दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे ।। १७६
अपूरयत्तस्य मुखं शिनाने रामः शरैमपिनद्धपुत्रैः ।
स पूर्णवक्त्रो न शशाक वक्तुं चुकृज कृच्छ्ण मुमोह चापि ।। १७७
अथाददे सूर्यमरीचिकल्पं स ब्रमदण्डान्तककालकल्पम् ।
अरिष्टमैन्द्र निशितं सुपुझं गमः शरं मारुततुल्यवेगम् ।।
१७८
तं वज्रजाम्बूनदचारुपुङ्गं प्रदीप्तमूर्यज्वलनप्रकाशम ।
महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ।।
म सायको राघवबाहुचोदितो दिशः स्वभासा दश संप्रकाशन ।
विध्मवैश्वानरदीपदर्शनो जगाम शक्राशनिवीर्यविक्रमः ।।
स तन्महापर्वनकूटसंनिभं निवृत्तदंष्ट्र चलचारुकुण्डलम् ।
चकर्न रक्षोऽधिपतेः शिरम्नथा यथैव वृत्रम्य पुरा पुरंदरः ॥ १८१
कुम्भकर्णशिरो भानि कुण्डलालंकृतं महत् । 'आदित्येऽभ्युदिने गत्री मध्यस्थ इस चन्द्रमाः ।।
तद्रामबाणाभिहतं पपान रक्षःशिरः पर्वतसंनिकाशम् ।
बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपानयच्च ॥
१८३
न्यपनत् कुम्भकर्णोऽथ स्वकायेन निपातयन् । प्लवङ्गमाना कोट्यश्च परितः संप्रधावनाम् ।।
नच्चातिकार्य हिमवत्प्रकाशं रक्षततस्तोयनिधौ पपान ।
ग्राहान् वरान् मीनवरान् भुजङ्गान् ममर्द भूमि च तदा विवेश ॥ १८५
तम्मिन हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे।
चचाल भृर्भूमिधराश्च मर्व हर्षाच्च देवास्तुमुलं प्रणेदुः ।।
१८०