पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चषष्टितमः मर्गः

रजनीयं हि भर्नारं विनष्टमवगम्य सा । नैराश्यात् स्त्रीलधुत्वाच त्वद्वशं प्रतिपत्स्यते ।। ३३
सा पुरा सुखसंवृद्धा सुखारे दु.खकर्शिता । त्वय्यधीनं मुखं ज्ञात्या मर्वोपगमिष्यति ॥ ३४
एतत् सुनीतं मम दर्शनेन रामं हि दृष्दैव भवेदनर्थः ।
इहैव ते सेत्स्यति मोत्युको भूमहानयुद्धेन सुग्वम्य लाभः ॥
३५
अनष्टसैन्यो' बनवाप्तसंशयो रिपयुद्धेन जयन्नराधिपः ।
यशश्च पुण्यं च महन्महीपने श्रियं च कीर्ति च चिरं समश्नुते ।।

इत्यार्षे श्रीमद्रामायणे वान्मीकीये आदिकाध्ये चतुर्विंशतिसहस्रिकायां महितायाम् युद्धकाण्डे सीताप्रलोभनोपायो नाम चतुःषष्टितमः मगः पञ्चषष्टितमः सर्गः कुम्भकर्णाभिषेणनम्

स तथोक्तम्तु निर्भय॑ कुम्भकर्णा महोदरम् । अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ।। १
सोऽहं नव भयं घोरं वधात्तम्य दुगन्मन । गमम्याच प्रमार्जामि निर्वैरो हि सुखी भव ॥
गर्जन्ति न वृथा शुग निर्जला व तोयना । पश्य सपद्यमानं तु गजितं युधि कर्मणा ॥ ३
न मर्पयति चात्मानं मभावयति नात्मना । अदयित्वा शूराम्तु कर्म कुर्वन्ति दुष्करम् ।। ४
विक्लवानामबुद्धीनां राजा पण्डितभानिनाम् । शृण्वनां सादितमिदं त्वद्विधानां महोदर ॥
युद्धे कापुरुषनित्यं भवद्भि प्रियवादिभि । राजानभनुगच्छद्भि कृत्यमेतद्धि सादितम् ।।
राजशेषा कृता लङ्का क्षीण कोशो बलं हनम् । गजानमिममासाद्य मुहृञ्चिह्नममित्रकम् ॥
एप निर्याम्यहं युद्धमुद्यत. शत्रुनिर्जये । दुर्नयं भवतामद्य समीकर्तुमिहाहवे ॥
एवमुक्तवतो वाक्यं कुम्भकर्णम्य धीमन. । प्रत्गुवान नतो वाक्यं प्रहमन् राक्षसाधिपः ।।
महोदरोऽयं रामात्तु परित्रम्तो न सग 1 । न हि रोचयते नान युद्धं युद्धविशारद ।। १०
कश्चिन्मे त्वत्समो नास्ति सौहृदैन बलेन च । गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥११
तस्मात्तु भयनाशार्थ भवान् सबोधितो मया । अयं हि कालः सुहृदां राक्षसानामरिंदम ॥ १२
तद्गच्छ शूलमादाय पाशहम्त इवान्तकः । वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥
समालोक्य तु ते रूपं विद्रविष्यन्ति वानरा | रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिप्यतः ।। १४