पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःपञ्चाशः सर्गः चतुःपश्चाशः सर्गः वज्रदंष्ट्रवधः

बलस्य च निघातेन अङ्गदस्य जयेन च । राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ १
स विस्फार्य धनुर्घोरं शक्राशनिसमम्वनम् । वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ।।
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः । नानाप्रहरणाः शूगः प्रायुध्यन्त तदा रणे ॥ ३
वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः । अयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥ ४
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् । गक्षमा. कपिमुख्येषु पातयांचक्रिरे तदा ।।
वानराश्यापि रक्षःसु गिरीन् वृक्षान् महाशिलाः । प्रवीराः पातयामासुमत्तवारणसंनिभाः ॥ ६
शूगणां युध्यमानानां समरेप्वनिवर्तिनाम् । तद्राक्षसगणानां च सुयुद्धं समवर्तत ।।
प्रभिन्नगिग्सः केचिद्भिन्नैः पादैश्च बाहुभि । शम्बरपिनदेहास्तु रुधिरेण समुक्षिताः ।।
हरयो राक्षसाश्चैव शरते गां ममाश्रिता । ककगृध्रबलाढ्याश्च' गोमायुगणसंकुलाः ।।
कबन्धानि ममुन्पनुरिणां भीषणानि वै । भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ॥ १०
वानरा राक्षमाश्चापि नितुम्तत्र वै रणे । नतो वानरसैन्येन हन्यमानं निशाचरम् ।।
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः । गक्षसान् भयवित्रम्तान् हन्यमानान् प्लवङ्गमैः ।। १२
दृष्ट्वा स रोषनाम्राक्षी वज्रदंष्ट्र प्रतापवान् । प्रविवेश धनुप्पाणिस्त्रासयन् हरिवाहिनीम् ॥ १३
शनैर्विदाग्यामाम कङ्कपत्रैरजिमगः । विभेद वानरांम्तन सप्ताष्टी नव पञ्च च ।।
विन्याध परमक्रुद्धो वनदंष्ट्र प्रतापवान् । त्रम्ता. सर्व हरिगणाः शरैः संकृत्तकन्धरा. ॥
अगदं संप्रधावन्ति प्रजापनिमिव प्रजा । तनो हरिगणान् भमान् दृष्ट्वा वालिमुनस्तदा ॥ १६
क्रोधेन वज्रदंष्ट्र तमुद्रीक्षन्नमुदेक्षन । बज्रदंष्टोऽङ्गदश्चोभी संगतौ हरिराक्षसौ ।।
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव । ततः शरमहस्रेण वालिपुत्रं महाबल. ।।
जघान मर्मदेशेषु मानङ्गमिव तोमरैः । रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ।।
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः । दृष्ट्वापतन्तं नं वृक्षमसंभ्रान्तश्च राक्षसः ।। २०
चिच्छेद बहुधा सोऽपि निकृत्तः पतितो भुवि । तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ॥ २१
प्रगृह्म विपुलं शैलं चिक्षेप च ननाद च । समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ॥ २२
गदापाणिरसंभ्रान्तः पृथिव्यां समतिष्ठन । अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि ॥ २३
सचमकूबरं साश्वं प्रममाथ रथं तदा । ततोऽन्यं गिरिमा क्षिप्य विपुलं द्रुमभूषितम् ।। २४
वज्रदंष्ट्रस्य शिरसि पातयामास सोऽङ्गदः । अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्छितः ।। २५