पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति । सोऽम्या भर्ता सह भ्रात्रा निरस्तां रणमूर्धनि ।।
निविंशका निरुद्विमा निरपेक्षा च मैथिली। मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् । स्ववेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती ॥१०
निरपेक्षा विशालाक्षी मामुपस्थाम्यते खयम् । तस्य तद्वचनं श्रुत्वा रावणम्य दुरात्मनः ॥ ११
राक्षस्यम्तास्तथेन्युत्तवा जग्मुर्वै यत्र पुष्पकम् । ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ॥ १२
अशोकवनिकाम्यां तां मैथिली समुपानयन् । तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् ॥१३
सीतामारोपयामासुर्विमानं पुष्पकं तदा । ततः पुष्पकमारोप्य सीतां त्रिजटया सह || १४
जग्मुर्दर्शयितुं तम्यै राक्षम्यो रामलक्ष्मणौ । रावणोऽकारयल्लका पताकाध्वजमालिनीम् ।। १५
प्राघोषयन हृष्टश्च लङ्कायां राक्षमेश्वरः । राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ।।
विमानेनापि सीता तु गन्वा त्रिजटया सह । ददर्श वानराणां तु सर्व सैन्यं निपातितम् ॥ १७
प्रहृष्टमनसश्चापि ददर्श पिशिनागनान् । वानरांश्चापि दुःग्वार्नान् रामलक्ष्मणपार्श्वनः ।। १८
नतः सीता ददर्शाभौ शयानौ शरतल्पयोः । लक्ष्मणं चापि रामं च विसंज्ञौ शरपीडिती ॥ १९
विश्वस्तकवचौ वीरौ विप्रविद्धशरामनी । मायकैश्छिन्नसर्वाङ्गो शरम्तम्बमयो क्षिती ।। २०
तौ दृष्ट्वा भ्रातरौ नत्र वीरौ मा पुरुषर्षभो । शयानी पुण्डरीकाक्षी कुनाराविव पावकी ॥ २१
शरतल्पगतौ वीरौ नथाभूतो नरर्षभौ । दुःग्वार्ता सुभृशं सीना मुचिरं विललाप ह ॥ २२
भर्नाग्मनवद्याङ्गी लक्ष्मणं चामिनेक्षणा । प्रेभ्य पांमुघु वेष्टन्नौ गरोद जनकात्मजा ।। २३
मा बाप्पयाकाभिहना ममीक्ष्य तो भ्रातरी देवममप्रभावी ।
वितर्कयन्नी निधनं तयोः मा दुःग्वान्विता वाक्यमिदं जगाद ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्रिकायां महिनायाम युद्धकाण्ड नागबद्धरामलक्ष्मणप्रदर्शनं नाम सप्तचत्वारिंशः सर्ग: अष्टचत्वारिंशः सर्गः सीताश्वासनम्

भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् । विललाप भृशं सीना करुणं शोककर्शिता ।। १
ऊचुर्लक्षणिना ये मां पुत्रियविधवेनि च । तेऽद्य सर्व हते रामे ज्ञानिनाऽनृतवादिनः ।
यज्वनो महिषी ये मामूचुः पनी च सत्रिणः । तेऽद्य सर्वे हने रामे ज्ञानिनोऽनृतवादिनः ॥ ३
ऊचुः संश्रवणे ये मां द्विजा कार्नान्तिकाः शुभाम् । तेऽद्य सर्व हते रामे ज्ञानिनाऽनृतवादिनः
वीरपार्थिवपनी त्वं ये धन्येति च मां विदुः । तेऽद्य सर्वे हते रामे ज्ञानिनाऽनृतवादिनः ॥ ५
इमानि नलु पद्मानि पादयोथैः किल स्त्रियः । आधिगज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ।।