पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तचत्वारिंशः सर्गः ७४५

लब्धसंज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः । नैतत्किंचन रामस्य न च रामो मुमूर्षति ॥४०
न होनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् । तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ।।
यावत्कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् । एते हि फुल्लनयनास्त्रासादागतसाध्वसाः ॥४२
कर्णे कर्णे प्रकथिता हरयो हरिमत्तम । मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितुम् ।। ४३
त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव ब्रजम् । समाश्वास्य तु सुग्रीवं राक्षसेन्द्रा विभीषणः ।।
विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः । इन्द्रजित्तु महामायः सर्वसैन्यममावृतः ।।
विवेश नगरी लहां पितरं चाभ्युपागमत् । तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।।
आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ। उत्पपात ततो हृष्टः पुत्रं च परिपस्वजे ।।
रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातिनौ । उपाघ्राय स मूर्येनं पप्रच्छ प्रीतमानसः ।। १८
पृच्छते च यथावृत्तं पित्रे सर्व न्यवेदयत । यथा तो शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ॥ ४९
स हर्षवेगानुगनान्तरात्मा श्रुत्वा वचस्तम्य महारथस्य ।
जही ज्वरं दागरथेः समुत्थितं प्रहृष्य वाचाभिननन्द पुत्रम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाध्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे सुप्रीवाद्यनुशोको नाम षट्चत्वारिंशः सर्गः सप्तचत्वारिंशः सर्गः नागबद्धरामलक्ष्मणप्रदर्शनम्

प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणान्मजे । राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ।। १
हनुमानङ्गदी नीलः सुषेण कुमुदी नलः । गजी गवाक्षो गवयः शरभो गन्धमादनः ॥ २
जाम्बवानृषभः स्कन्धो गम्भः शतवलिः पृथु । व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ॥ ३
वीक्षमाणा दिशः सर्वाम्तियगृवं च वानराः । तृणेष्वपि च चेप्टल्सु राक्षसा इनि मेनिरे ।। ४
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं मुतम् । आजुहाव ततः सीनारक्षिणी राक्षसीस्तदा ।।
राक्षस्यस्त्रिजटा चैव शासनात्ममुपस्थिनाः । ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ॥ ६
हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ। पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ॥