पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वात्रिंशः सर्ग.
१२
आदिष्टं दीर्घमायुस्ते दैवज्ञैरपि राघव । अनृतं वचनं तेषामरूपायुरसि राघव ||
अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव । पचत्येनं यथा कालो भूतानां प्रभवो ह्ययम् ॥ १३
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् । व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ||
तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया कालराज्या मयाच्छिद्य हृनः कमललोचन ||
उपशेषे महाबाहो मां विहाय तपस्विनीम् । प्रियामिव समाश्लिष्य पृथिवी पुरुषर्षभ ||
अर्चितं सततं यत्तद्गन्धमायैर्मया तव । इदं ते मत्प्रियं वीर धनुः काञ्चनभूषणम् ॥
पित्रा दशरथेन त्वं श्वशुरेण ममानष । सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥
दिवि नक्षत्रभूतम्त्वं महत्कर्मकृतां प्रियम् । पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ॥
किं मां न प्रेक्षसे राजन् किं मां न प्रतिभाषसे । बालां बाल्येन संप्राप्तां भार्या मां महचारिणीम् ॥
७१०
१. किन्तु झ
अस्थानन्तरम् मुहूर्तमपि नेच्छामि
जीवितुं पापजीविता | श्रुतं मया वेदविदां ब्राह्मणाना
चितुगृहे ॥ यासो कोणा प्रियो भर्ता तामां लोका
१५
१६
२३
गृह्णता पाणि चरिष्यामीति यत्त्वया । स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ २१
कम्मान्मामपहाय त्वं गतो गतिमतां वर । अस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुखिताम् ।। २२
कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु | ऋन्यादैम्तच्छरीरं ते नूनं विपरिकृप्यते ॥
अभिष्टोमादिभिर्यज्ञैरिष्टवानातदक्षिणै. | अमिहोत्रेण संस्कारं केन त्वं तु न लप्यसे ||
पत्रज्यामुपपन्नानां त्रयाणामेकमागतम् | परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ २५
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते । तव चाख्यास्यते नूनं निशायां राक्षसैवघम् ॥२६
सात्वां सुप्तं हतं श्रुत्वा मां च रक्षागृहं गताम् । हृदयेनावदीर्णेन न भविष्यति राघव ॥२७
मम हेतोरनार्याया अनघ पार्थिवात्मजः | रामः सागरमुत्तीर्य सत्त्ववान् गोष्पदे हतः ॥ २८
अहं दाशरथेनोढा मोहात्म्बकुलपांसनी | आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ।
नूनमन्यां मया जातिं वारितं दानमुत्तमम् | यामद्येह शोचामि भार्या सर्वातिथेरपि ॥ ३०
साधु पातय मां क्षिप्रं रामस्योपरि रावण । समानय पति पत्न्या कुरु कल्याणमुत्तमम् ॥ ३१
शिरसा मे शिरश्चास्य कार्य कायेन योजय | रावणानुगमिष्यामि गति भनुर्महात्मनः ॥ ३२
इति सा दुःखसंतप्ता विललापायतेक्षणा | भर्तुः शिरो धनुस्तत्र समीक्ष्य च पुनः पुनः ॥
एवं लालप्यमानायां सीतायां तत्र राक्षसः | अभिचक्राम भर्तारमनीकम्यः कृताञ्जलिः ॥
विजयस्वार्थपुत्रेति सोऽभिवाद्य प्रसाद्य च । न्यवेदयदनुप्राप्तं प्रहम्तं वाहिनीपतिम् ॥
अमात्यैः सहितैः सर्वैः प्रहस्तः समुपस्थित । तेन दर्शनकामेन वयं प्रस्थापिताः प्रभो ॥
नूनमस्ति महाराज राजभावात्क्षमान्वितम् । किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥
२०

३३
३४
३५
३६
३७
महोदया: । क्षमा यस्मिन् दमस्त्यागः सत्य धर्मः
कृतज्ञता || अहिंसा चैव भूताना तभृते का गतिर्मम |
इति छ ।