पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे
४२
प्रणामं शिरसा कृत्वा रावणस्यामतः स्थितः । तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् ||
विद्युजिहं महाजिहं समीपपरिवर्तिनम् । अग्रतः कुरु सीतायाः शीघ्रं दाशरथे: शिरः ॥ ४१
अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु । एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ॥
उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत | रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् ।
त्रिषु लोकेषु विख्यातं सीतामिदमुवाच च । इदं तत्तव रामस्य कार्मुकं ज्यासमायुतम् ॥४४
इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥
४३
स विद्युज्जिह्वेन सहैव तच्छिरो तनुश्च भूमौ विनिकीर्य रावणः ।
विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा ||
इत्यार्षे श्रीमशमयणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसह स्त्रिकायां संहितायां
युद्धकाण्डे विद्युजिह्वमायाप्रयोगो नाम एकत्रिंशः सर्गः
द्वात्रिंशः सर्गः
सीता विलापः


सा सीता तन्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । सुप्रीवप्रतिसंसर्गमाख्यातं च हनुमता ॥ १
नयने मुग्ववर्ण च भर्तुस्तत्सदृशं मुखम् । केशान् केशान्तदेशं च तं च चूडामणि शुभम् ॥ २
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता। विजगर्हेत्र कैकेयी कोशन्ती कुररी यथा ॥
सकामा भव कैकेयी हतोऽयं कुलनन्दनः । कुलमुत्पादितं सर्व त्वया कलहशीलया ||
आर्येण किं ते ककयि कृतं रामेण विप्रियम् । यद्गृहाच्चीरवमनं दत्त्वा प्रत्राजितो वनम् ॥ ५
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी । जगाम जगती बाला छिन्ना तु कदली यथा ॥ ६
सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् । तच्छिरः समुपाघ्राय विललापायतेक्षणा ।
हा हतास्मि महाबाहो वीरव्रतमनुव्रत । इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ।
प्रथमं मरणं नार्यो भर्तुर्वगुण्यमुच्यते । सुवृत्त साधुवृत्तायाः संवृत्तम्त्वं ममाग्रतः ||
दुःखाद्दुःखं प्रपन्नाया ममाया: शोकसागरे । यो हि मामुयतस्त्रातुं सोऽपि त्वं विनिपातितः ॥
सा श्वश्रूमंम कौसल्या त्वया पुत्रेण राघव | वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ ११

1.
रामस्य तदिति भुवन् घ. ।
२. समन्वितम् झ. ।
३. अम्यानन्तरम् इदानीं स हि धर्मात्मा
राक्षसच कथं हत. - इति ग छ ।
४. ममया छ. 1