पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायण युद्धकाण्डे
३२
नास्ति रामस्य सदृशी विक्रमे भुवि कश्चन । विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ २९
वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान् क्षितौ । जनस्थानगता येन यावन्तो राक्षसा हताः।। ३०
लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः । यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ३१
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ । वरुणस्य च पुत्रोऽन्यो हेमकूटः प्लवङ्गमः ॥
विश्वकर्मसुतो बीरो नलः प्लवगसत्तमः । विक्रान्तो बलवानत्र वसुपुत्रः सुदुर्धरः ||
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः । परिगृह्य पुरी लङ्कां राघवम्य हिते रतः ॥
इति सर्व समाख्यातं तवेदं वानरं बलम् । सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः ॥ ३५
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिमहत्रिकायां संहितायाम्
युद्धकाण्डे वानरबलसंख्यानं नाम त्रिंशः सर्गः
३३
एकत्रिंशः सर्गः
विवृजिसमायाप्रयोगः


ततम्तमक्षाभ्यवलं लङ्काधिपतये चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ||
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत्किंचित्मचिवा निन्द्रमब्रवीत् ॥ २
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः । अयं नो मन्त्रकालो हि संप्राप्त इति राक्षसाः ॥
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् । ततः स मन्त्रयामास सचिवै राक्षसैः सह ॥
मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् | विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥ ५
ततो राक्षममाहूय विद्युज्जिह्वं महाबलम् । मायाविनं महामाय: प्राविशद्यत्र मैथिली ॥
विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः | मोहयिष्यावहे सीतां मायया जनकात्मजाम् ||
शिरो मायामयं गृह्य राघवस्य निशाचर | त्वं मां समुपतिष्ठम्व महच सशरं धनुः ॥
एवमुक्तम्तथैत्याह विद्युज्जिह्वो निशाचर: । दर्शयामास तां मायां मुप्रयुक्तां स रावणे ||
तम्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् । अशोकवनिकायां तु सीता दर्शनलालसः ॥ १०
नैर्ऋनानामधिपतिः संबिवेश महाबलः । ततो दीनामदैन्यार्हां ददर्श धनदानुजः ||
अधोमुखी शोकपरामुपविष्टां महीतले । भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ॥
उपास्यमानां घोरामी राक्षसीभिरदूरतः । उपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन् ॥


Q.
9. अन्धकोपमः छ ।
२.
तावन्तः पुना ।
३.
इदमर्धम च. छ. नास्ति ।
अस्यानन्तरम् -- राक्षसी भिर्वृतां सीतां
पूर्णचन्द्रनिभाननाम् उत्पातमेघराजीभि चन्द्र रेखा-
१२
१३
मिवावृताम् ॥ भूषणरुत्तमः कैश्चिन्मङ्गलार्थम लंकृताम् ।
चरन्ती मारुतोद्धूतां क्षिप्तां पुष्पलतामिव ॥ हर्षशो-
कान्तरे ममां विषादस्य विलक्षणाम्। स्तिमितामिव
गाम्भीर्यानदी भागीरथीमिवं ॥ -स्व. छ.।