पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशः सर्गः
७१५
1



अयथावच्च ते वर्णो दीनश्चासि निशाचर | नासि कश्चिदमित्राणां क्रुद्धानां वशमागतः ॥ ३
इति तेनानुशिष्टस्तु बाचं मन्दमुदीरयत् । तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ।। ४
न ते चारयितुं शक्या राजन् वानरपुंगवाः । विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ॥ ५
नापि संभाषितुं शक्याः संप्रश्नोऽत्र न लभ्यते । सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ॥ ६
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते । बलाहीतो रक्षोभिर्बहुधास्मि विचालितः ||
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् । परिणीतोऽम्मि हरिभिर्बलवद्भिरमर्पणैः ||
परिणीय च सर्वत्र नीतोऽहं रामसंसदम् । रुधिरादिग्धसर्वाङ्गो विह्वलचलितेन्द्रियः ॥
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः | राघवेण परित्रातो मा मेति च यदृच्छया ॥ १०
एष शैलै : शिलाभिश्च पूरयित्वा महार्णवम् । द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥ ११
गारुडं न्यूहमास्थाय सर्वतो हरिभिर्वृतः । मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु । सीतां वास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ १३
मनसा तं तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः । शार्दृलं सुमहद्वाक्यमथोबाच स रावणः ॥१४
यदि मां प्रति युध्येरन् देवगन्धर्वदानवाः | नैव सीतां प्रदास्यामि सर्वलोकभवादपि ॥ १५
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् । चारिता भवता सेना केऽत्र शूराः प्लवङ्गमाः ॥ १६
कीदृशाः किंप्रभाः सौम्य वानरा ये दुरासदाः | कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ||
तथात्र प्रतिपत्म्यामि ज्ञात्वा तेषां बलाबलम् । अवश्यं बलसंख्यानं कर्तव्यं युद्धमिच्छताम् ॥
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः । इदं वचनमारमे वक्तुं रावणसंनिधौ ॥

१२

9
२१
२३
अथर्क्षरजसः पुत्रो युधि राजा सुदुर्जयः । गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः || २०
गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतकतोः | कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ||
सुपेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् । सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः ॥
सुमुखी दुर्मुखश्यात्र वेगदर्शी च वानरः । मृत्युर्वानररूपेण नूनं सृष्टः स्वयंभुवा ॥
पुत्रो हुतवहस्याथ नील: सेनापतिः स्वयम् । अनिलस्य च पुत्रोऽत्र हनुमानिति विश्रुतः ॥ २४
नता शकस्य दुर्घर्षो बलवानङ्गदो युवा | मैन्दश्च द्विविदश्वोभौ बलिनावश्विसंभवौ ॥
पुत्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः । गजो गवाक्षो गवयः शरभो गन्धमादनः ।।
दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् । श्रीमतां देवपुत्राणां शेषं नाग्व्यातुमुत्सहे ॥२७
पुत्रो दशरथस्यैष सिंहसंहननो युवा । दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥
२५
२६
२८
१. उदीरयन् पुना ।
२. बलिभिईरिभिर्व[वि]प्रकारिभिः ख ।
३. जीवामीति च. छ. 1
४.
५.
६. पौत्रः स्व.।
संततापाथ घ
सौम्याः प्र. १