पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७००
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


ततो मध्यात् समुदस्य सागरः स्वयमुत्थितः । उदयन् हि महाशैलान्मेरोरिव दिवाकरः ॥१७
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत । स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः ।। १८
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः । सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् ॥१९
जातरूपमयैश्चैव तपनीयविभूषितैः । आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ।। २०
धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव । एकावलीमध्यगतं तरलं पाटलप्रभम् । २१
विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् । आघूर्णिततरङ्गौघः कालिकानिलसंकुलः ॥ २२
उद्घर्तितमहाग्राहः संभ्रान्तोरगराक्षसः । देवतानां सरूपाभिः नानारूपाभिरीश्वरः ॥ २३
गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः । सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान् ॥ २४
अब्रवीत्प्राञ्जलिर्वाक्यां राघवं शरपाणिनम् । पृथिवी वायुराकाशमापो ज्योतिश्च राघव ॥ २५
खभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः । तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः।। २६
विकारस्तु भवेद्राध एतत्ते वेदयाम्यहम् । न कामान्न च लोभाद्वा न भयात् पार्थिवात्मज ॥२७
ग्राहनकाकुलजलं स्तम्भयेयं कथंचन । विधास्ये येन गन्तासि विषहिष्ये ह्यहं तथा । २८
ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति । हरीणां तरणे राम करिष्यामि यथा स्थलम् ।।
तमब्रवीत्तदा राम उद्यतो हि नदीपते। अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम् ॥ ३०
रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥ ३१
उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतमो मम । द्रुमकुल्य इनि ख्यातो लोके ख्यातो यथा भवान्।।
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः । आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ॥३३
तैस्तु संस्पर्शनं प्राप्तैर्न सहे पापकर्मभिः । अमोघः क्रियतां राम तत्र तेषु शरोत्तमः ।।३४
तस्य तद्वचनं श्रुत्वा सागरम्य महात्मनः । मुमोच तं शरं दीप्तं वीरः सागरदर्शनात् ॥ ३५
तेन तन्मरुकान्तारं पृथिव्यां खलु विश्रुतम् । निपातितः शरो यत्र दीप्ताशनिसमप्रभः ॥ ३६
ननाद च तदा तत्र वसुधा शल्यपीडिता । तस्माद्बाणमुखात्तोयमुत्यपात रसातलात् ।।३७
स बभूव तदा कूपो व्रण इत्यभिविश्रुतः । सततं चोत्थितं तोयं समुद्रस्येव दृश्यते ।। ३८
अवदारणशब्दश्च दारुणः समपद्यत । तस्मात्तद्बाणपातेन त्वपः कुक्षिप्वशोषयत् ।। ३९
विख्यातं त्रिषु लोकेषु मरुकात्तरमेव तत् । शोषयित्वा ततः कुक्षिं रामो दशरथात्मजः ॥४०
वरं तसै ददौ विद्वान् मरवेऽमरविक्रमः । पशव्यश्वाल्परोगश्च फलमूलरसायुतः ।। ४१
बहुस्नेहो बहुक्षीर: सुगन्धिर्विविधौषधः । एवमेतैर्गुणैर्युक्तो बहुभिः सततं मरुः ।।
रामस्य वरदानाच्च शिवः पन्था वभूव ह। तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरितां पतिः ।।