पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०१
द्वाविंश सर्गः


राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् । अयं सौम्य नलो नाम तनुजो विश्वकर्मणः ॥४४
पित्रा दत्तवरः श्रीमान् प्रतिमो विश्वकर्मणा । एष सेतुं महोत्साहः करोतु मयि वानरः ॥ ४५
तमहं धारयिष्यमि तथा ह्येष यथा पिता । एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्तदा ॥४६
अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः । अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये ।।४७
पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः । दण्ड एव वरो लोके पुरुषस्येति मे मनिः ॥ ४८
धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा । अयं हि सागरो भीम सेतुकर्मदिदृक्षया ।। ४९
ददौ दण्डभयाद्गाधं राघवाय महोदधिः। मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा ।।५०
मया तु सदृशः पुत्रस्तव देवि भविष्यति। औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ।।५१
स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः । न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान्।। ५२
समर्थश्चाप्यहं सेतुं कर्तु वै वरुणालये । काममद्यैव बध्नन्तु सेतुं वानरपुंगवा ॥ ५३
ततोऽतिसृष्टा रामेण सर्वतो हरियूथपाः । अभिपेतुर्महारण्यं हृष्टा शतसहस्रश ॥५४
ते नगान्नगसंकाशा शाखामृगगणर्षभा । बभञ्जुर्वानरास्तत्र प्रचकर्पुश्च सागरम् ।।५५
ते सालैश्चाश्वकर्णेश्च धवैर्वंशैश्च वानरा । कुटजैरर्जुनैस्तालैस्तिलकैस्तिमिशैरपि ।।५६
बिल्वैश्च सप्तपर्णेश्च कर्णिकारैश्च पुष्पितै । चूतैश्चाशोकवृक्षैश्च सागरं समपूरयत् ।।५७
समूलांश्च विमूलाश्च पादपान् हरिसत्तमाः । इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ।।५८
तालान् दाडिमगुल्मांश्च नारिकेलान् विभीतकान । बकुलान् खदिरान्निम्बान् समाजह्रुः समन्ततः।।
हस्तिमात्रान् महाकाया पाषाणांश्च महाबला । पर्वतांश्च समुत्पाट्य यन्त्रै परिवहन्ति च ॥६०
प्रक्षिण्यमाणैरचलैः सहसा जलमुद्धतम् । समुत्पतितमाकाशमुपासर्पत्ततस्तत ||६१
समुद्रं क्षोभयामासुर्वानराश्च समन्ततः । सूत्राण्यन्ये प्रगृह्णन्ति व्यायतं शतयोजनम् ।। ६२
दशयोजनविस्तारं शतयोजनमायतम् । नलश्चक्रे महासेतुं मध्ये नदनदीपतेः ॥ ६३
स तथा क्रियते सेतुर्वानरैर्घोरकर्मभिः । दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथा परे ।६४
वानराः शतशस्तत्र रामस्याज्ञापुर सराः । मेघाभै पर्वताग्रैश्च तृणैः काष्ठैबबन्धिरे ।।६५