पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९९
द्वाविंशः सर्गः


ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम् ।


सौमित्रिरुत्पत्य समुच्छ्वसन्तं मा मेति चोक्त्वा धनुराललम्बे ।।३३


एतद्विनापि ह्युदधेस्तवाद्य संपत्स्यते वीरतमस्य कार्यम् ।


भवद्विधाः कोपवशं न यान्ति दीर्घं भवान् पश्यतु साधुवृत्तम् ॥३४


अन्तर्हितैश्चैव तथान्तरिक्षे ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।


शब्दः कृतः कष्टमिति ब्रुवद्भिर्मा मेति चोक्त्वा महता स्वरेण ॥३५

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाध्ये चतुर्विंशतिसहनिकायां संहितायाम्

युद्धकाण्डे समुद्रसंक्षोभो नाम एकविंशः मर्ग:

द्वाविंशः सर्गः

सेतुबन्धः

अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः । अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥ १
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर | मया शोषितसत्त्वस्य पांसुरुत्पद्यते महान् ॥ २
मत्कार्मुकविसृष्टेन शरवर्षेण सागर । पारं तेऽद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ।।३
विचिन्वन्नाभिजानासि पौरुषं वापि विक्रमम् । दानवालय संतापं मत्तो नाम गमिष्यसि ॥ ४
ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम् । संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ॥५
तस्मिन् विकृष्ट सहसा राघवेण शरासने। रोदसी संपफालेव पर्वताश्च चकम्पिरे ।।६
तमश्च लोकमावव्रे दिशश्च न चकाशिरे । परिचुक्षुभिरे चाशु सरांसि सरितस्तथा ।।७
तिर्यक् च सह नक्षत्रैः सङ्गतौ चन्द्रभास्करौ । भास्करांशुभिरादीप्तं तमसा च समावृतम् ॥ ८
प्रचकाशे तदाकाशमुल्काशनविदीपितम् । अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ।।९
पुस्फुरुन्ध धना दिव्या दिवि मारुनपङ्क्तयः । बभञ्ज च तदा वृक्षाञ्जलदानुद्वहन्नपि ॥१०
आरुजंश्चैव शैलाग्रा ञ्शिखराणि प्रभञ्जनः । दिविस्पृशो महामेघाः सङ्गताः समहास्वनाः ।।
मुमुचुर्वैद्युतानग्नीस्ते महाशनयस्तदा। यानि भूतानि दृश्यानि चुकुशुश्चाशनेः समम् ।। १२
अदृश्यानि च भूतानि मुमुचुभैरवस्वनम् । शिश्यिरे चापि भूतानि संत्रस्तान्युद्विजन्ति च ॥ १३
संप्रविव्यथिरे चापि न च पस्पन्दिरे भयात् । सहभूतैः सतोयोर्मि: सनागः सहराक्षसः ॥ १४
सहसामूत्ततो वेगाभ्दीमवेगो महोदधिः । योजनं व्यतिचक्राम वेलामन्यत्र संप्लवात् ।। १५
तं तदा समतिक्रान्तं नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ।। १६