पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तो मधु वारुणीम्। अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम् ॥
अङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे प्रहस्तादिवचनं नाम अष्टमः सर्गः

नवमः सर्गः

विभीषणसमालोचनम्

ततो निकुम्भो रभसः सूर्यशत्रुमहाबलः । सुप्तघ्नो यज्ञहा रक्षो महापार्श्वो महोदरः ।।१
अग्निकेतुश्च दुर्घषो रश्मिकेतुश्च वीर्यवान् । इन्द्रजिच्च महातेजा बलवान् रावणात्मजः ॥२
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः । धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ।।३
परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान् । चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् ॥
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः। अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥५
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् । कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता॥ ६
तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः । अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ।।
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते। तस्य विक्रमकालांम्तान् युक्तानाहुर्मनीषिणः ॥
प्रमत्तेष्वभियुक्तेषु दैवेन प्रहृतेषु च । विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृता ॥९
अप्रमत्तं कथं तं तु विजिगीपुं बले स्थितम् । जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ।।१०
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् । गतं हनुमतो लोके को विन्द्यात्तर्कयेत वा ।।११
बलान्यपरिमेयाणि वीर्याणि च निशाचराः । परेषां सहसावज्ञा न कर्तव्या कथंचन ॥ १२
किं च राक्षसराजस्य रामेणापकृतं पुरा । आजहार जनस्थानाद्यम्य भार्यां यशस्विनः ।।१३
खरो यद्यतिवृत्तम्तु रामेण निहता रणे । अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ १४
अयशस्यमनायुष्यं परदाराभिमर्शनम् । अर्थक्षयकर धोरं पापस्य च पुनर्भवम् ।।१५
एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् । आहृता सा परित्याज्या कलहार्थे कृतेन किम् ॥१६
न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना । वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ।।१७
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् । पुरी दारयते बाणैर्दीयतामस्य मैथिली ।।१८
यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी । नावस्कन्दति नो लङ्कां दीयतामस्य मैथिली ॥१९
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः। रामस्य दयिता पत्नी स्वयं यदि न दीयते।।२०