पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७७
अष्टमः सर्गः


अष्टमः सर्गः

प्रहस्तादिवचनम्

ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः। अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ।। १
देवदानवगन्धर्वाः पिशाचपतगोरगाः। न त्वां धर्षयितुं शक्ताः किं पुनर्मानवौ रणे ।। २
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता। न हि मे जीवतो गच्छेज्जीवन् स वनगोचरः ॥३
सर्वां सागरपर्यन्तां सशैलवनकाननाम् । करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ।।४
रक्षा चैव विधास्यामि वानराद्रजनीचर । नागमिप्यति ते दुःखं किंचिदात्मापराधजम् ।।५
अब्रवीत्तु सुसंक्रुद्धो दुर्मुखो नाम राक्षसः । इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥ ६
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च । श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् ।।७
अस्मिन् मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् । प्रविष्टान् सागरं भीममम्बरं वा रसातलम् ।। ८
ततोऽब्रवीत्सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः । प्रगृह्य परिघं घोरं मांसशोणितरूषितम् ।।९
किं वो हनुमता कार्यं कृपणेन दुरात्मना । रामे तिष्ठति दुर्धर्षे ससुग्रीवे सलक्ष्मणे ॥१०
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥ ११
इदं ममापरं वाक्यं शृणु राजन् यदीच्छसि । उपायकुशलो हवं जयेच्छत्रूनतन्द्रितः ॥ १२
कामरूपधराः शूराः सुभीमा भीमदर्शनाः । राक्षसा वै सहस्राणि राक्षसाधिप निश्चिताः ॥ १३
काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः । सर्वे ह्यसंभ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ।।१४
प्रेषिता भरतेन स्म तव भ्रात्रा यवीयसा । तवागमनमुद्दिश्य कृत्यमात्ययिकं त्विति ॥१५
स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति । ततो वयमितस्तूर्णं शूलशक्तिगदाधराः ।। १६
चापबाणासिहस्ताश्च त्वरितास्तत्र याम हे। आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम् ।।
अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम् । एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ ॥१८
अवश्यमपनीतेन जहतामेव जीवितम् । कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् ॥ १९
अब्रवीत्परमक्रुद्धो रावणं लोकरावणम् । सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः ।। २०
अहमेको हनिष्यामि राघवं सहलक्ष्मणम् । सुग्रीवं च हनूमन्तं सर्वानेव च वानरान् ।। २१
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः । क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्यमब्रवीत् ॥ २२
खैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः । एकोऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान् ।।