पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७९
दशमः सर्गः


प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम । हितं तथ्यमहं ब्रूमि दीयतामस्य मैथिली ।। २१

पुरा शरत्सूर्यमरीचिसन्निभानवान् सुपुङ्खान् सुदृढान्नृपात्मजः ।
सृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ २२
त्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम् ।
प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥२३


विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् ॥ २४

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे विभीषणसमालोचनं नाम नवमः सर्ग:

दशमः सर्गः

विभीषणपथ्योपदेशः

ततः प्रत्युषसि प्राप्ने प्राप्तधर्मार्थनिश्चियः । राक्षमाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥१
शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम् ।।२
मनिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् । राक्षसैश्चाप्तपर्याप्तः सर्वतः परिरक्षितम् ।।३
मत्तमानङ्गनिःश्वासैर्व्याकुलीकृतमारुतम् । शङ्खघोषमहाघोषं तूर्यनादानुनादितम् ।।४
प्रमदाजनसंबाधं प्रजल्पितमहापथम् । तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम् ॥५
गन्धर्वाणामिवावासमालयं मरुतामिव । रत्नसंचयसंवाधं भवनं भोगिनामिव ।।६
तं महाभ्रमिवादित्यस्तेजो विस्तृतरश्मिमान् । अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ।।७
पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान् । शुश्राव सुमहातेजा भातुर्विजयसंश्रितान् ।।८
पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोऽक्षतैः । मन्त्रवेदविदो विप्रान् ददर्श सुमहाबलः ॥९
स पूज्यमानो रक्षोभिर्दीप्यमानः स्वतेजसा । आसनस्थं महाबाहुर्ववन्दे धनदानुजम् ॥ १०
स राजदृष्टिसंपन्नमासनं हेमभूषितम् । जगाम समुदाचारं प्रयुज्याचारकोविदः ॥ ११
स रावणं महात्मानं विजने मन्त्रिसन्निधौ । उवाच हितमत्यर्थं वचनं हेतुनिश्चितम् ।। १२
प्रसाद्य भ्रातरं ज्योष्ठं सान्त्वेनोपस्थितक्रमः । देशकालार्थसंवादी दृष्टलोकपरावरः ॥ १३
यदा प्रभृति वैदेही संप्राप्तेमां पुरी तव । तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥१४
सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः । मन्त्रसंधुक्षितोऽप्यग्निर्न सम्यगभिवर्धते ॥ १५
अग्निष्ठेष्वमिशालासु तथा ब्रह्मस्थलीषु च । सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥ १६
गवां पयांसि स्कन्नानि विमदा वीरकुञ्जराः । दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥१७