पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३८ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

इत्येवमू चुर्षहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे ।
सप्राणिसङ्घ सगृहां सवृक्षां दग्धां पुरी तां सहसा समीक्ष्य ॥
ततस्तु लका सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा।
सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुले सशब्दम् ॥
हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं 'सुपुण्यम् ।
रक्षोभिरेवं बहुधा अवद्भिः शब्दः कृतो घोरतरः मुभीमः ॥
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा ।
हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ।।
स संभ्रमत्रस्नयिपण्णराक्षमां समुज्ज्वलज्ज्वालहुनाशनाविताम् ।
ददर्श लङ्कां हनुमान महामनाः स्वयंभुकोपोपहतामिवावनिम ।।
भड़क्त्वा वनं पादपरत्नसंकुलं हत्वा तु रक्षांसि महान्ति संयुगे ।
दग्भ्वा पुरी तां गृहरनमालिनी तस्थौ हनूमान् पवनात्मजः कपिः ।।
४५
त्रिकूटशृङ्गाप्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ।
प्रदीप्तलागूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ।।
४६
स राक्षसांस्नान सुबहश्च हत्वा वनं च भक्त्वा बहुपादपं तत् ।
विमृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनमा महात्मा ।।
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।
महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे
भक्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे। दग्ध्वा लङ्कापुरी रम्यां रराज स महाकपिः ।। ४५
तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । दृष्टा लङ्का प्रदग्धां तां विग्मयं परमं गताः ।।
तं दृष्टा वानर श्रेष्ठं हनुमन्तं महाकपिम् । कालानिरिति संचिन्त्य सर्वभूतानि तत्रसुः ।।
देवाश्च सर्व मुनिपुंगवाश्च गन्धर्वविद्याधरकिंनराश्च ।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चनुर्विशतिसहस्तिकाया सहितायाम् सुन्दरकाण्डे लङ्कादाहो नाम चतुःपञ्चाशः सर्ग: