पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुःपञ्चाशः सर्गः

श्वसनेन च संयोगादतिवेगो महाबलः । कालानिरिव संदीप्तः प्रावर्धत हुताशनः ॥ २१
प्रवृद्धमनिं पवनस्तेषु वेश्मस्वचारयत्' । अभूच्छ्रसनसंयोगादतिवेगो हुताशनः ।।
तानि काञ्चनमालानि मुक्तामणिमयानि च । भवनानि व्यशीर्यन्त रत्नवन्ति महान्ति च ॥ २३
तानि भविमानानि निपेतुर्धरणीतले । भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ॥
संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् । स्वगृहस्य परित्राणे भनोत्साहोर्जितश्रियाम ॥
नूनमेषोऽनिरायातः कपिरूपेण हा इति । क्रन्दन्त्यः सहसा पेतुः स्तनधयधराः स्त्रियः ॥ २६
काश्चिदग्निपरीताग्यो हम्येभ्यो मुक्तमूर्धजाः । पतन्त्यो रेजिरेऽभ्रेभ्यः सौदामिन्य इवाम्बरात्॥२७
वनविद्रुमवैदूर्यमुक्तारजतसंहितान् । विचित्रान् भवनाद्धातून स्यन्दमानान् ददर्श सः ॥
नाग्निस्तृष्यति काप्टानां तृणानां च यथा तथा । हनूमान राक्षसेन्द्राणां वधे किंचिन्न तृष्यति ॥ २९
नागेर्नापि विशस्तानां राक्षसानां वसुन्धरा । न हनूमद्विशस्तानां राक्षसानां वसुंधरा ।। ३०
कचित् किंशुकसंकाशाः कचिच्छाल्मलिसंनिभाः। कचित् कुङ्कमसंकाशः शिखा वह्वेश्चकाशिरे ॥३१
हनूमता वेगवता वानरेण महात्मना । लक्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ॥
३२
ततस्तु लकापुरपर्वताने समुत्थितो भीमपराक्रमोऽमिः।
प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ।।
३३
युगान्तकालानलतुल्यवेगः समारुतोऽनिर्ववृधे दिविस्पृक् ।
विधूमरश्मिर्भवनेषु सक्तो रक्षःशरीराज्यसमर्पितार्चिः ॥
आदित्यकोटीसदृशः सुतेजा लवां समस्तां परिवार्य तिष्ठन् ।
शब्दैरनेकैरशनिप्ररूलैमिन्दग्निवाण्डं प्रबभौ महानिः ।।
३५
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ।।
वश्री महेन्द्रसिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा ।
रुद्रोऽग्निरों धनदश्च सोमो न वानरोऽयं स्वयमेव कालः॥
किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य ।
इहागतो बानररूपधारी रक्षोपसंहारकरः प्रकोपः ।।
३८
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।
अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया सांप्रतमागतं वा ।।
३९