पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्रपश्चाशः सर्गः पञ्चपञ्चाशः सर्गः हनूमद्विभ्रमः

लङ्कां समस्तां संदीप्य लागूलाग्निं महाबलः । निर्वापयामास तदा समुद्रे हरिसत्तमः ।। १
संदीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् । अवेक्ष्य हनुमालङ्कां चिन्तयामास वानरः ।।
तस्याभूत सुमहांखासः कुत्सा चात्मन्यजायत । लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ॥ ३
धन्यास्ते पुरुषश्रेष्ठा ये बुद्धया कोपमुत्थितम् । निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ।।
क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद्गुरूनपि । क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ।।
वाच्यावाच्यं प्रकुपितो ना नाति कर्हि चित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते कचिन् ॥६
यः समुत्पनितं क्रोधं क्षमयैव निरस्यति । यथोरगरत्वचं जीणां स वै पुरुप उच्यते ।।
धिगस्तु मां सुदु वुद्धिं निर्लज्ज पापकृत्तमम् । अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ।।
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी ! दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥
यदर्थमयमारम्भस्तत्कार्यमवसादितम् । मया हि दहता लङ्कां न सीता परिरक्षिता ।। १०
ईषत्कार्यमिदं कार्य कृतमासीन्न संशयः । तस्य क्रोधामिभूतेन मया मूलक्षयः कृतः ।। ११
विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते । लङ्कायां कश्चिदुदेशः सर्वा भस्मीकृता पुरी ॥ १२
यदि तद्विहन कार्य मम प्रज्ञाविपर्ययात् । इहेब प्राणसंन्यासो ममापि ह्यध रोचते ॥ १३
किमग्नौ निपताम्यद्य आहोस्विडबामुखे । शरीरमाहो सत्त्वानां दमि सागरवासिनाम् ।। १४
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः । तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ।। १५
मया खलु तदेवेदं रोषदोपात् प्रदर्शितम् । प्रथितं त्रिपु लोकेषु कपित्वमनवस्थितम् ।।
धिगस्तु गजसं भावमनीशमनस्थितम् । ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ।।
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः । तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ।। १८
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः । धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ।। १९
इक्ष्वाकुवंशे धर्मिष्ठ गते नाशमसंशयम् । भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः ॥
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः । रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ।।
२१
इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे । पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत् ।।
अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा । न नशिष्यति कल्याणी नामिरमौ प्रवर्तते ॥ २३
न हि धर्मात्मनस्तस्य भार्याममिततेजसः । स्वचारित्राभिगुप्तां तां स्पष्टुमर्हति पावकः ॥
नूनं रामप्रभावेण वैदेह्याः सुकृतेन च । यन्मां वहनकर्मायं नादहद्धव्यवाहनः ।।
प्रयाणां भरतादीनां भ्रातृणां देवता च या । रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥ २६
बडा दहनकर्मायं सर्वत्र प्रभुरव्ययः । न मे दहति लागूलं कथमायाँ प्रधक्ष्यति ॥