पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आरूढः शैलसंकाशं चकास सहलक्ष्मणः । ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ।। १३
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ । ततस्तस्य नगस्याग्रे ह्याकाशस्थम्य दन्तिनः ॥ १४
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता । भर्तुरङ्कात् समुत्पत्य ततः कमललोचना ।। १५
चन्द्रसूर्यौ मया दृष्टौ पाणिना परिमार्जती । ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ॥ १६
सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः । पाण्डरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।। १७
इहोपयातः काकुत्स्थः सीतया सह भार्यया । लक्ष्मणेन साह भ्रात्रा विमाने पुष्पके स्थितः ॥ १८
शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः । आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम् ।। १९
उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः । साण्डं त्रिभुवनं भीमं सर्वतः सचराचरम् ।। २०
एवं स्वप्नो मया दृष्ट्रो रामो विष्णुपराक्रमः । लक्ष्मणेन मह भ्रात्रा सीतया सह राघवः ।। २१
न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः । राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ।। २२
रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः । रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः॥ २३
विमानात् पुष्पकादद्य रावणः पतितो भुवि । कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ।। २४
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः । पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः ।। २५
गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः । पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ।। २६
पतितोऽवाक्शिरा भूमौ गर्दभाद्भयमोहितः । सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः ॥ २७
उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् मुहुः । दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम् ॥ २८
मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः । कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ॥ २९