पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति । एवं तत्र मया दृष्टः कुम्भकर्णो निशाचरः ।। ३०
रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः । वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ।। ३१
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् । एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ॥ ३२
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलंकृतः ।। ३३
आरुह्य शैलसंकाशं मेघस्तनितनिःस्वनम् । चर्तुदन्तं गजं दिव्यमास्ते तत्र विभीषणः॥ ३४
चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः । समाजश्व मया दृष्टो गीतवादित्रनिःस्वनः ॥ ३५
पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् । लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा॥ ३६
सागरे पतिता दृष्टा भग्नगोपुरतोरणा । लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ।। ३७
दग्धा रामस्य दूतेन वानरेण तरस्विना । पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ॥ ३८
लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः । कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः ।। ३९
रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे । अपगच्छत नश्यध्वं सीतामाप स राघवः ॥ ४०
घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः । प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ।। ४१
भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः । तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ।। ४२
अभियाचाम वैदेहीमेतद्धि मम रोचते । यस्यामेवंविधः स्वप्नो दुःखितायां प्रदृश्यते ।। ४३
सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् । भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ॥ ४४
राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् । प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।। ४५
अलमेषा परित्रातुं राक्षसीर्महतो भयात् । अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये ॥ ४६
विरूपमपि चाङ्गेषु सुमूक्ष्मपि लक्षणम् । छायावैगुण्यमानं तु शङ्के दुःखमुपस्थितम् ।। ४७
अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् । अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ॥ ४८
राक्षसेन्द्रविनाशं च विजयं राघवस्य च । निमित्तभूतमेतत्तु श्रोतुमस्या महत् प्रियम् ।। ४९
दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् । ईषच्च हृषितो वाद्या दक्षिणाया ह्यदक्षिणः ॥ ५०
अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते । करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ।। ५१
वेपमानः सूचयति राघवं पुरतः स्थितम् ।
पक्षी च शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी ।
सुस्वागतां वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः॥ ५२