पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मम पश्यन्ति ये नाथं रामं राजीवलोचनम् । अथवा न हि तस्यार्थो धर्मकामस्य धीमतः ।। ४२
मया रामस्य राजर्षेर्भार्यया परमात्मनः । दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः ॥ ४३
नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति । किं नु मे न गुणाः केचित् किं वा भाग्यक्षयो मम।। ४४
याहं सीदामि रामेण हीना मुख्येन भामिनी । श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ॥ ४५
रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणान् । अथवा न्यस्तशत्रौ तौ वने मूलफलाशिनौ ।। ४६
भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ । अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ।। ४७
छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ । साहमेवं गते काले मर्तुमिच्छामि सर्वथा ।। ४८
न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तति । धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ।।४९
जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये । प्रियान्न संभवेद्दुःखमप्रियान्नाधिकं भयम् ॥ ५०
ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् । साहं त्यक्ता प्रियार्हेण रामेण विदितात्मना ॥ ५१
प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् !!
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे प्राणत्यागसंप्रधारणं नाम षड्विंशः सर्ग:

सप्तविंशः सर्गः
त्रिजटास्वप्नः
इत्युक्ताः सीतया घोरा राक्षम्यः क्रोधमूर्छिताः । काश्चिज्जग्मुस्तदारव्यातुं रावणस्य तरस्विनः ।। १
ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः । पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ।। २
अद्येदानीं तवानार्ये सीते पापविनिश्चये । राक्षस्यो भक्षयिष्यामो मांसमेतद्यथासुखम् ।। ३
सीता ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा । राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमन्ब्रवीत् ॥ ४
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ । जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥ ५
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः । राक्षसानामभावाय भर्तुरस्या जयाय च ।। ६
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः । सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः॥ ७
कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि । तासां तु वचनं श्रुत्वा राक्षमीनां मुखाच्च्युतम् ।। ८
उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् । गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ।। ९
युक्तां हंससहस्रेण स्वयमास्थाय राघवः । शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः ॥ १०
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता । सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ।। ११
रामेण संगता सीता भास्करेण प्रभा यथा । राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् ॥ १२