पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा । समर्थः खलु मे भर्ता रावणं हन्तुमाहवे॥ १५
विराधो दण्डकारण्ये येन राक्षसपुंगवः । रणे रामेण निहतः स मां किं नाभिपद्यते ॥ १६
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा । न तु राघवबाणानां गतिरोधीह विद्यते ॥ १७
किं नु तत् कारणं येन रामो दृढपराक्रमः । रक्षसापहृता भार्यामिष्टां नाभ्यवपद्यते ॥ १८
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः । जानन्नपि हि तजेस्वी घर्षणं मर्षयिष्यति ॥ १९
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् । गृध्रराजोऽपि स रणे रावणेन निपातितः ॥ २०
कृतं कर्म महत्तेन मां तथाभ्यवपद्यता । तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥ २१
यदि मामिह जानीयाद्वर्तमानां स राघवः । अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ २२
विधमेच्च पुरीं लङ्कां शोष्येञ्च महोदधिम् । रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥ २३
ततो निहतनाथानां राक्षसीनां गृहे गृहे । यथाहमेवं रुदती तथा भूयो न संशयः ।। २४
अन्विप्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः । न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ।। २५
चिताधूमाकुलपथा गृध्रमण्डलसंकुला । अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। २६
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् । दुष्प्रस्थानोऽयमाभाति सर्वेषां वो विपर्ययः ॥ २७
यादृशानीह दृश्यन्ते लङ्कायामशुभानि ये । अचिरेणैव कालेन भविष्यति हतप्रभा ॥ २८
नूनं लङ्का हते पापे रावणे राक्षसाधमे । शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥ २९
पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी । भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ॥ ३०
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे । श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ ३१
सान्धकारा हतद्योता हतराक्षसपुंगवा । भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ३२
यदि नाम स शूरो मां रामो रक्तान्तलोचनः । जानीयाद्वर्तमानां हि रावणस्य निवेशने ॥ ३३
अनेन तु नृशंसेन रावणेनाधमेन मे । समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः॥ ३४
स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते । अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः ।। ३५
अधर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् । नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ॥ ३६
ध्रुवं मां प्रातराशार्थं राक्षसः कल्पयिष्यति ! साहं कथं चरिष्यामि तं विना प्रियदर्शनम् ।। ३७
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता । यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह ॥ ३८
क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना । नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।। ३९
जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् । नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ॥ ४०
देवलोकमितो यातस्त्यक्त्वा देहं महीतले । धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।। ४१