पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् । समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ॥ १४
भर्तारं तमपश्यन्ती राक्षसीवशमागता । सीदामि खलु शोकेन कूलं तोयहतं यथा ।। १५
तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् । धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ १६
सर्वथा तेन होनाया रामेण विदितात्मना । तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।।
कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् । येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ १८
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता । राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ॥ १९
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम्।। २०
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे सीतानिर्वेदो नाम पञ्चविंश: सर्गः

पडिशः सर्गः
प्राणत्यागसंप्रधारणम्
प्रसक्ताश्रुमुखी त्वेवं ब्रुवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। १
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। २
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा । रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ३
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् । चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ४
न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः । वसन्त्या राक्षसीमध्ये विना रामं महारथम् ।। ५
अश्मसारमिदं नूनमथवाप्यजरामरम् । हृदयं मम येनेदं न दुःखेनावशीर्यते ।। ६
धिङ्मामनार्यामसतीं याहं तेन विनाकृता । मुहूर्तमपि रक्षामि जीवितं पापजीविता॥ ७
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना । भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ॥ ८
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् । न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ९
चरणेनापि सव्येन न स्पृशेयं निशाचरम् । रावणं किं पुनरहं कामयेयं विगार्हितम् ।। १०
प्रत्याख्यानं न जानाति नात्मनं नात्मनः कुलम् । यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ॥ ११
छिन्ना भिन्ना प्रभिन्ना वा दीप्ता वाग्नौ प्रदीपिता । रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ।। १२
ख्यातः प्राज्ञः कृतज्ञश्च सानुकोशश्व राघवः । सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ १३
राक्षसानां जनस्थाने सहस्राणि चतुर्दश । येनैकेन निरस्तानि स मां किं नाभिपद्यते । १४